________________
अस्याऽमारिघोषणस्यैव कुमारपालकारितस्य सुफलमिदं यदद्याऽपि समग्रेऽपि भारतवर्षे गूर्जरराज्ये एव सर्वाधिकतयाऽहिंसापालनं भवति, अत्रैव चाऽधिकाधिकजना: शाकाहारिणो विद्यन्ते ।
एतदनन्तरं तेन समग्रादपि निजराज्यान्मद्यपान-द्यूत-मृगया-चौर्यादिदूषणान्यपि सर्वथा निवारितानि । एतत् सर्वमपि तेन कञ्चिद् धर्मविशेषं पालयितुं नैवाऽऽचरितमपि तु केवलं निजप्रजानामिह-पारलौकिककल्याणार्थमेवाऽऽचरितम् । तत्र च सम्पूर्णमपि मार्गदर्शनं प्रेरणं चाऽऽचार्याणामेवाऽऽसीद् यैहि निष्पक्षतया दयाभावनया च केवलं विशुद्धं राजधर्मं कुमारपालद्वारा पालयितुमेव तत् कृतम् । अन्यच्च, सर्वेषामपि धर्मसम्प्रदायानामेतत् सर्वमपि हितकार्यत्वेन सम्मतमेवाऽस्ति । अत: 'कुमारपालं जैनधर्मिणं कर्तुं ततश्च राज्याश्रयं प्राप्तुं हेमचन्द्राचार्यैः सर्वमप्येतत् कृत'मिति ये मन्यन्ते तत् सर्वथाऽनुचितमेव ।
अन्यदा मध्यरात्रे करुणं विलपन्त्याः कस्याश्चित् स्त्रिया रोदनं श्रुत्वा कुमारपालो निद्रातो जागृतः, तदुःखं दूरीकर्तुं च स्वयमेव तामन्वेष्टुं गतः । नगराद् बहिर्गतेन तेन स्मशानभूमौ दृष्टं यत् काचित् स्त्री सरोदनं विलपन्त्यस्ति, अन्या च तां सान्त्वयन्ती तत्रैवोपविष्टाऽस्ति । तेन तत्र गत्वा रोदनकारणं पृष्टा सा कथितवती यद् - 'अपुत्राया अस्या भर्ता वाणिज्यार्थं देशान्तरं गतस्तत्रैव मृत - इति वार्ता ज्ञात्वैषा रोदिति' । कुमारपालेन पृष्टं - "किमर्थमेषाऽत्राऽऽगत्य रोदिति ननु ?' तयोक्तं - 'अद्याऽप्येषा वार्ता नाऽन्यैः कैश्चिज्ज्ञाता । यदि नगरे एवैषा रुद्यात् तदा सर्वैरपि ज्ञायेत, तथा च राजपुरुषैनियमानुसारमस्याः सर्वमपि धनं स्वायत्तीक्रियेत । अत एवैषाऽत्राऽऽगत्य रोदिति' । कुमारपालेन सहसा स्मृतं यद – 'अपुत्राया नार्या भर्तृमरणे सर्वमपि धनं - रुदतीवित्तमित्यभिधं - राज्यकोशे क्षिप्यते - इति हि सर्वत्र परम्परागतो नियमोऽस्ति' । तेन चिन्तितं – 'यदि सर्वमप्यस्या धनादिकं राजा गृह्णीयात् तदा कथमेषा स्वनिर्वाह कुर्यात् ? नूनमत्यन्तमयोग्योऽनुचितश्च नियमोऽस्त्ययम्' । ततो मनसैव तं नियममपाकर्तुं निश्चित्य तेन सा रुदती स्त्री भणिता - 'पुत्रि ! मा रोदीः । अहमेव सोऽभाग्यो राजा यस्य भयेन रोदिषि त्वम् । किन्तु मयाऽद्य तद् धनं त्यक्तुं निर्णीतमस्ति । अतः सुखेन गच्छ स्वगृहं, न कोऽपि त्वां कदाऽपि पीडयिष्यति' ।
ततो राजप्रासादमागत्य प्रातःकाले सर्वावसरे स्वयमेवोत्थाय घोषितं - 'अद्यप्रभति राज्यकोशे रुदतीवित्तं नैव पतिष्यति, मया हि तादृशं धनं सर्वथा त्यक्तमस्ति' । एनां घोषणां श्रुत्वा मन्त्रिभिरन्यैश्च राजपुरुषैर्बहु प्रतिकृतं किन्तु कुमारपालेन दृढतया स्वनिर्णयं ज्ञापयित्वा तत् त्यक्तमेव, प्रतिवर्षं च ततः प्राप्यमाणानि कोटिशो रूप्यकाणि त्यक्तानि । करुणापरीतचेतसस्तस्येदं वृत्तं ज्ञात्वा प्रसन्नीभूता आचार्यास्तं प्रशशंसुर्यथा -
न यन्मुक्तं पूर्वे रघु-नहुष-नाभागप्रमुखैः प्रभूतोर्वीनाथैः कृतयुगकृतोत्पत्तिभिरपि । विमुञ्चन् सन्तोषात् तदपि रुदतीवित्तमधुना कुमारक्ष्मापाल ! त्वमसि महतां मस्तकमणिः ॥
* अद्यत्वेऽपि गूर्जरराज्ये ६५% जनाः शाकाहारिणो राजस्थाने च ६०% जनाः ।
६८