SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ एतदमारिघोषणं राजपुरुषाणां सामन्तानामन्येषां च जनानां निर्बलत्वं भीरुत्वं वाऽभासत । किन्तु कुमारपालः स्वनिर्णये दृढ एवाऽवर्तत । तस्याऽविचलं मतमासीद् यद् बल-पराक्रमौ अन्यद् वस्तु, दयाऽहिंसा चाऽन्यदेव वस्तु । दयाया अहिंसायाश्च पालनेन न कोऽपि निर्बलो भीरुर्वा भवेदिति । __ अथाऽणिहल्लपुरपत्तने चौलुक्यानां कुलदेव्याः कण्टकेश्वरीदेव्या मन्दिरमासीत् । तस्मिन् प्रतिवर्षमेकवारं शतशो महिषादिजीवानां बलिदानं कृत्वा नैवेद्यरूपेण देव्यै समर्प्यते स्म । बलिदाननियमः कुलपरम्परागत आसीत् । स कदाचिदपि परावर्तयितुं न शक्यते स्म । यदा तदवसरः समागतस्तदा कुमारपालो हेमचन्द्राचार्याणां मार्गदर्शनं प्राप्तुं तेषां पार्वे गतः । यदा स तत्र गतस्तदा जनैः सर्वैरप्यूहितमासीद् यदधुनाऽऽचार्याणां परीक्षा भविष्यति । यतो यदि स तन्निषेधं कुर्यात् तदा नृपस्य हानिर्भविष्यति, तथा ते तद्विधानानुमति दातुमपि नैव शक्ताः, स्पष्टतया हिंसात्वात् तस्य । किन्तु सर्वेषामाश्चर्यमध्ये तैः कुमारपालस्य कथितं – 'राजन् ! भवतः कुलदेव्याः कण्टकेश्वर्याः कृते बलिदानार्थं पशून् ददातु तस्यै' । एतच्छ्रवणेनाऽवाङ्मूका जाताः सर्वे यावत्, तावत् तैरुक्तं – 'किन्तु, तेषां पशूनां वधो नैव कर्तव्यः । अपि तु जीवन्त एव ते देव्यै समर्पयितव्याः । यदि तस्यास्तेषां मांसस्येच्छा स्यात् तदा सा स्वयमेव ग्रहीष्यति । यदि सा न ग्रहीष्यति तदा मन्तव्यं यत् सा सर्वेषां जन्तूनां मातृभूता कथं तेषां स्वसन्तानानां प्राणानपहृत्य मांसं गृह्णीयात् ?' इति ।। सर्वेषां निषेधे विरोधे च जातेऽपि कुमारपालेन गुरुवचोऽङ्गीकृत्य तथैव जीवन्तः पशवः समर्पिता देव्यै । आरात्रि च मन्दिरे एव स्थापितास्ते । द्वितीयदिने च प्रातस्तान् तथैव जीवन्तो दृष्ट्वा सर्वेऽपि जना हृष्टाः अभवन् । यद्यपि देव्याः पुरोहितेन कुमारपालो बहु भायितो भत्सितश्च तथाऽपि स स्वनिर्णये दृढोऽविचलश्चैवाऽवर्तत जीवदयामहिंसां च पालितवान् । तस्येदृशीं दृढतां दया-ऽहिंसादौ च गाढश्रद्धां विलोक्य कविभिर्बहु प्रशंसितः स तद्गुरवश्च - पूर्वं वीरजिनेश्वरे भगवति प्रख्याति धर्मं स्वयं प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधात् यस्याऽऽसाद्य वचस्सुधां स परमः श्रीहेमचन्द्रो गुरुः ॥ (कविः श्रीधरः) तथा आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशस्वादरादब्दान्येव चतुर्दश प्रसृमरां मारिं निवार्योजसा । कीर्तिस्तम्भनिभांश्चतुर्दशशती-संख्यान् विहारांस्तथा क्लृप्त्वा निर्मितवान् कुमारनृपतिजैनो निजैनोव्ययम् ।। (मन्त्री यशःपालः मोहराजपराजयनाटके) ६७
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy