________________
स तादृश एव संयतः, यथा नीतिनिपुणस्तथैव धर्मपरायणोऽपि, यद्यपि दुर्धर्षस्तथाऽपि सौम्यः, तात्त्विकबुद्धिरपि व्यवहारकुशलोऽनुभवज्ञानी च, आवश्यकतायां सत्यां कोटित्याग्यपि व्यवहारे मितव्ययी, यादृशश्च पराक्रमी तादृश एव क्षमावान् स आसीत् । तस्य पराक्रम - कौशलादिभिर्गुर्जरदेशस्य गौरवं चरमशिखरं प्राप्तम् ।
अथ वैक्रमे १२०७ तमे संवति हेमचन्द्राचार्याणां मातुः साध्व्या अन्तकाल: सन्निहित आसीत् । तयाऽपि च स्वस्थेन समाधियुतेन च मनसाऽनशनं स्वीकृतमासीत् । तदात्वे श्रावकैस्तत्पुण्यार्थं कोटित्रयमितधनं व्ययितुं निर्णीतं घोषितं च । हेमचन्द्राचार्या अपि तत्रोपस्थिता आसन् । मात्रा धनव्ययघोषणं श्रुत्वा पुत्राभिमुखमालोकितम् । तदा तैरपि मातुः कृते लक्षत्रयमितश्लोकसर्जनपुण्यमुद्घोषितम् । तच्च श्रुत्वा सा प्रसन्ना जाता परमेष्ठिनमस्कारश्रवण-ध्यानादिपुरस्सरं च समाधिमरणं प्राप्य दिवङ्गता । तत आरभ्य हेमचन्द्राचार्या अधिकाधिकसाहित्यसर्जनानुषक्ताः कालं गमयन्ति स्म ।
=
एकदा कुमारपालेन धर्मचर्चायां जिज्ञासया 'जीवनस्य सार्थक्यं कुत्र कथं वे 'ति आचार्याः पृष्टाः। तदा तस्य सत्यजिज्ञासां ज्ञात्वाऽऽचार्यैः कथितं यद् 'जीवनसार्थक्यं हि बोध (ज्ञान) - श्रद्धा (दर्शन) - आचरण(चारित्र)रूपाया रत्नत्रय्या आराधने विद्यते । य एनां रत्नत्रयीं मनो- वाक्काययोगैः सम्पूर्णतयाऽऽराधयति तस्य कस्याऽपि सम्प्रदायस्याऽनुयायित्वं नाऽऽवश्यकम् । एतदाराधनेनैव स कृतार्थो भवेत्' । ततो राजाऽपि यथावबोधं सश्रद्धं सदाचरणे रतोऽभवत् ।
अथाऽन्यदा नगरचर्यां कुर्वन् स वधार्थं सौनिकगृहे नीयमानान् पशून् व्यलोकत । पशूनामार्तनादान् श्रुत्वा तस्य हृदयं करुणया द्रवीभूतम् । सहैव तन्मनसि ग्लानिरपि सञ्जाता यद् ‘राज्ये यदेतादृशं हिंसादिकार्यं भवति तस्य सर्वस्याऽपि उत्तरदायित्वं ममैव' । स सत्वरं गुरूणामन्तिकं गत्वाऽत्राऽर्थे तेषां मार्गदर्शनमयाचत । तैरपि 'दयैवाऽहिंसैव च सर्वेषामपि धर्माणां मूलमस्ती'ति प्ररूपितं कथितं च -
श्रूयते सर्वशास्त्रेषु सर्वेषु समयेषु च । अहिंसा लक्षणो धर्मस्तद्विपक्षश्च पातकम् ॥१॥ क्षमातुल्यं तपो नास्ति, न सन्तोषात् परं सुखम् । न मैत्रीसदृशं दानं, न धर्मोऽस्ति दयासमः ॥ २॥
-
'तत्र च पूर्णतया प्रयत्नो विधातव्यः' इति चोपदिष्टम् । एतच्च कुमारपालायाऽतीव रुचितम् । तेन स्वीये सर्वस्मिन्नपि राज्येऽमारिघोषणं कृतं, मांसभक्षणं च सर्वथा त्याजितम् । एतावदेव न, तेन स्वराज्ये वसतां सहस्रशः सौनिकानामपि मांसविक्रयणादिवृत्तिं त्याजयित्वा नूतनां वृत्तिमारब्धं सूचितं, वर्षत्रयं यावत् तेषां निर्वाहः स्यात् तावन्मितं धनमपि तेभ्यः प्रदत्तं राजकोशात् । ततः शनैः शनैस्तेन स्वशासने सर्वत्रैवमेवाऽमारिघोषणं कृतं पूर्णतया च पालितम् । तच्च पालनं तथा कारितं तेन यथा कुत्राऽपि कोऽपि ‘म्रियस्व-मारये’त्यादि वचनप्रयोगमपि कर्तुं नाऽनुमन्यते स्म । यदि स तथा प्रयोगं कुर्यात् तदा तस्य कठोरदण्डः प्राप्येत ।
६६