________________
ततश्च वैक्रमे ११९९तमे वर्षे सिद्धराजो जयसिंहः स्वर्गतः । ततस्तस्य मन्त्रिभिर्यावद् योग्य उत्तराधिकारी न प्राप्येत तावत् सर्वाऽपि राज्यव्यवस्था कृता, जनैरपि च सिद्धराजगुणानुरक्तैस्तत्र साहाय्यं कृतम् । यदा चेयं वार्ता कुमारपालेन ज्ञाता तदा शीघ्रमेव सोऽज्ञातवासं त्यक्त्वाऽणहिल्लपुरपत्तनं प्राप्तो धैर्य पराक्रमं च प्रदर्श्य स्वयोग्यतां प्रमाणीकृतवान् । अतो मन्त्रिभिर्देशजनैश्च स एव राजत्वेनोद्घोष्य ११९९तमे वैक्रमाब्दे मार्गशीर्षकृष्णद्वितीयायां मृगशीर्षनक्षत्रे रविवासरे राज्येऽभिषिक्तः । राज्याभिषेककाले च तस्य वयः पञ्चाशदवर्षेभ्योऽप्यधिकमासीत् । राज्यं प्राप्यैदम्प्राथम्येन तेन सर्वेऽपि निजोपकारिणः स्मारं स्मारं प्रत्युपकृताः ।
अथ सिद्धराजस्य मृत्योरनन्तरं तदधीना बहवो राजानोऽन्येऽपि च केचन स्वतन्त्रीभूय गूर्जरदेशं विरुध्य वर्तितुमारब्धाः । अतः कुमारपालस्य राज्यप्राप्तेः प्रारम्भिकवर्षाणि तु विरोधिनां विरोधस्य चोपशमे एव व्यतीतानि । तेनाऽत्यधिकं परिश्रमं कृत्वा सर्वेऽपि शत्रवो विरोधिनश्च जिताः । तस्य जीवनस्य प्रभूतः कालो भ्रमणे एव व्ययित आसीदतस्तस्य शास्त्रज्ञानं यद्यपि न्यनमासीत तथाऽपि व्यवहारज्ञानमनभवज्ञानं च पूर्णमासीत् । शस्त्रविद्यायामपि स निपुणो महायोधश्चाऽऽसीदतः सैनिकेषु सोऽतीव प्रिय आसीत् । तेन निजं समग्रमपि व्यवहारज्ञानं युद्धकौशलं चोपयुज्य समग्राः शत्रवः पराजित्य मित्रीकृत्य चाऽष्टादशदेशेषु स्वशासनं स्थापितम् । ते च देशाः सपादलक्षः(शाकम्भरी), मालवः, कोङ्कणः, सिन्धुदेशः, यवनदेशः (तुर्कस्तानः), काशी, मगधदेशः, गौडदेशः, कान्यकुब्जः, दशार्णदेशः, चेदीदेशः, मथुरा, राजस्थानं, महाराष्ट्र, विदर्भः, कुरुदेशः, पञ्चनदः, सौराष्ट्रदेशः – इत्यादय आसन् ।
एतावता च प्रायो दशवर्षमितः कालो व्यतीतः । तदनन्तरं स स्थिरो जातः । इदानीं तस्य वयः प्रायः षष्टिवर्षमितमासीत् । अतस्तेन चिन्तितं – 'मम राज्यादिकं सर्वमपि सुस्थं जातमस्ति । अधुना मया शेषमायुः शान्त्या धर्मसाधनं कृत्वा व्ययितव्यम्' इति । तस्य हेमचन्द्राचार्याणामुपकारा अपि स्मृतिपथमागताः । अतः स तेषां चरणयोः पतित्वा व्यज्ञपयत् - 'प्रभो ! मम राज्यमिदं भवदधीनमेवाऽतो भवन्त एवैनं राज्यं स्वीकुर्वन्तु, अहं भवदाज्ञाकारी सेवको भविष्यामि' । आचार्यास्तु तस्मै स्वीयमर्यादां भौतिकवस्तुषु च विरक्तिं बोधयित्वा कथितवन्तः -
भुञ्जीमहि वयं भैक्ष्यं, जीर्णं वासो वसीमहि ।
शयीमहि महीपृष्टे, कुर्वीमहि किमीश्वरैः ?' || एतेनाऽधिकं सन्तुष्टो राजा तानेव स्वगुरुत्वेन सर्वकार्येषु च मार्गदर्शकत्वेन स्थापितवान् । ततः प्रत्यहं स तेषां पादमूले धर्मं नीति च बोद्धं गच्छति स्म । तेन हि स्वजीवने शास्त्रज्ञानमत्यल्पं प्राप्तमासीदतः स तस्मिन्नपि वयसि पठितुमारब्धवान् । सर्वप्रथमं स कामन्दकीयराजनीतिं पठितवान् । ततस्तेन व्याकरण-काव्य-साहित्यादीनामप्यध्ययनं कृतं तदभ्यासेन चाऽऽत्मनिन्दाद्वात्रिंशिकाभिधं काव्यमपि विरचितमासीत् । ततः सोऽन्यान्यशास्त्राण्यपि पठितवान् । अस्मिन् वयसि ज्ञानप्राप्तेस्तस्य निष्ठामालोक्य जनस्तस्मै विचारचतुरानन इति बिरुदं प्रदत्तमासीत् । तस्य गुणसम्पदपि निरुपमाऽऽसीत् । यादृशो वीरः
६५