________________
सहैव सिद्धराजोऽपि विचारकः सर्वधर्मान् प्रत्युदारमतवांश्चाऽऽसीत् । स यस्य कस्याऽपि कथनं विना विमर्शेन स्वीकुर्यादित्येतत् सर्वथाऽसम्भवमासीत् । स केवलं गुणानुरागेणैव हेमचन्द्राचार्यान् प्रत्याकृष्टो जातः, यतस्तेन तेषां सहजं शीतलताप्रदं तेजः, माधुर्य, शान्तः समभावः, सर्वदर्शनसङ्ग्रहोऽनन्यसदृशी च विद्वत्तेत्यादयो गुणा दृष्टा अनुभूताश्चाऽऽसन् । स्वभावसिद्धेन गुणानुरागेण स देवबोधसदृशगर्विष्ठपण्डितपुरतोऽपि भूमावेवोपविशति स्म । एवं स्थिते – हेमचन्द्राचार्य राज्याश्रयं प्राप्तुं प्रपञ्चाः कृताः, सिद्धराजो वा तैश्चाटुकथनादिभिः प्रभावित - इत्यादिकथनं सर्वथाऽयोग्यं द्वयोरपि च प्रमाणपुरुषयोरन्यायकरम् ।
हेमचन्द्राचार्याः हि कर्मयोगितया केवलं निष्पक्षतया सर्वेषां समन्वयकर्तारः समभाविनो लोकप्रियाश्च साहित्यस्रष्टार आसन् । धर्माचार्यतया च ते त्यागिनो विरागिनो निःस्पृहा निष्कर्मिणश्च साधुपुरुषा आसन् । तत्पुरतश्च सिद्धराजो जयसिंहो हि कुलपरम्परया यद्यपि शैवधर्मी आसीत् तथाऽपि राजत्वेन सर्वधर्मसम्मानकारी निष्पक्षोऽसाम्प्रदायिको न्यायी चाऽऽसीत् । तस्य सभायां सर्वेऽपि धर्माचार्याः समागच्छन्ति स्म, जैनेष्वपि हेमचन्द्राचार्येभ्यः पूर्वमेव तस्य वीराचार्य-मलधारिहेमचन्द्रसूरिप्रमुखाचार्याणां गाढपरिचय आसीदेव । एवंस्थितेऽपि स केवलं हेमचन्द्राचार्याणां गुणैरसाधारणपाण्डित्येन विशालप्रतिभया चैवाऽऽकृष्ट आसीत् । सत्यं तत्त्वं च किम् ? इति ज्ञातुं तस्य तीव्रोत्कण्ठाऽऽसीत्, सा च हेमचन्द्राचार्यै रेव शमितेत्यतस्तेनाऽऽचार्या स्वमार्गदर्शकत्वेन स्थापिताः ।
द्वाभ्यामप्याभ्यां युगपुरुषाभ्यां सम्मील्य गूर्जरदेशः साहित्य-संस्कार-समृद्ध्यादिभिः सनाथीकृतः, लोकानां विद्याभिरुचिर्वधिता, विशेषतश्च समग्रमपि देशं तौ समन्वयधर्मिणं विधातुं सफलौ जातौ । अद्य गूर्जरदेशः समग्रेऽपि भारतवर्षेऽधिकसहिष्णुरधिकतयोदारमतवादी च यदस्ति तस्य मूलकारणत्वेन हेमचन्द्राचार्याः, स्याद्वादः(समन्वयवादः), सिद्धराजजयसिंहः कुमारपालश्चाऽस्ति; गूर्जरभाषा, गूर्जरास्मिता चाऽपि एतेषामेव कारणादद्यपर्यन्तमक्षुण्णा वर्तते ।
अस्तु, प्रकृतं प्रस्तुमः - सिद्धराजेन पूर्वोक्तगुणालङ्कृतेन सताऽपि सन्तानरहितत्वात् कुमारपालमात्सर्यप्रेरितेन च कुमारपालं हन्तुं घातयितुं वा बहवः प्रयत्नाः कृताः, किन्तु भाग्यबलीयस्त्वात् तस्याऽन्यान्यजनसाहाय्येन च स सर्वदा रक्षितो जातः । एतेन सिद्धराजस्य वैरवृत्तिरतीव वृद्धिङ्गताऽऽसीत् । अतः कुमारपालोऽपि तद्भयेन देशत्यागं कृत्वा कर्णाट-काञ्ची-कोल्लापुर-मालव-चित्रकूटादिदेश-प्रदेशेषु विचरितः प्रायश्च देशस्य सर्वेषामपि तीर्थानां यात्राऽपि तेन कृता । एतत् सर्वं स्वीयगुप्तचरेभ्यो ज्ञात्वा सिद्धराजेन देशाद् बहिरपि तं मारयितुं सैनिकाः प्रेषिताः किन्तु तदाऽपि स रक्षितो जातः । वाग्भट्टमन्त्री, सज्जनमन्त्री, आलिगमन्त्री, आलिगकुलालः, जाम्बमन्त्री, भीमाभिधक्षेत्रपतिः, कटुवणिक्, देवश्रीः, वौसिरिब्राह्मणः - इत्यादयस्तं विपत्काले बहु साहाय्यं कृतवन्तः । द्वि-त्रवारं च हेमचन्द्राचार्यैरपि स रक्षित आसीत् राजभटेभ्यः । ततस्तं सान्त्वयित्वा भविष्यत्काले च स एव नृपतिर्भविष्यति - इति चाऽऽश्वास्य प्रहित आसीत् । एतदपि तैः केवलं जैनमुनिसहजया दयावृत्त्या करुणया चैव कृतं, न पुनर्भाविनि काले कञ्चिल्लाभं प्राप्तुम् ।
६४