________________
वचनं श्रोतुं सकर्णीभूता आसन् । तावता गुरवो मधुरवचोभिरुक्तवन्त: - 'राजन् ! भवतः प्रपितामहस्य भीमदेवस्य शासनकाले प्रभासतीर्थे स्थितस्य सोमनाथमहादेवमन्दिरं म्लेच्छैर्विनाशितमस्ति । समग्रदेशवासिनो हि तथाऽपि सोमनाथमहादेवस्य दर्शन-पूजाद्यर्थं पूर्णश्रद्धया निरन्तरं तत्र समागच्छन्ति सदाऽपि । यदि भवान् पुण्यमुपार्जितुममरत्वं प्राप्तुं पातकानि च नाशयितुमिच्छति तदा सोमनाथमहादेवमन्दिरस्य जीर्णोद्धारं कृत्वा नूतनमुत्तुङ्गं विशालं चैकं महादेवालयं निर्माय तत्र महामहेन सोमनाथमहादेवं प्रतिष्ठितं करोतु । भवतः सर्वोऽपि अभिलाष: पूर्णीभविष्यति सहैव कोटिशः श्रद्धालूनां भक्तिभावस्य पुण्यमपि प्राप्स्यते' |
गुरूणामुपदेशं श्रुत्वा कुमारपालोऽतीव प्रसन्नो जातः, सभासदश्च सर्वेऽपि नितरां विस्मिता जाता:। सोमनाथस्य मुख्यार्चकोऽन्ये च येऽपि जना आचार्यान् जैनेतरद्वेषिणो मन्यन्ते स्म मात्सर्यं च धरन्ति स्म तेऽपि ससन्तोषमाचार्याभिमुखा जाताः । आचार्यैश्च राजामात्य -सेनापति-नागरजनप्रमुखेभ्यः सर्वेभ्योऽपि यावत् सोमनाथमहादेवस्य प्रतिष्ठा न सम्पद्येत तावन्मद्य - मांसादीनां त्यागस्य प्रतिज्ञा कारिता । कुमारपालेन सपद्येव तदङ्गीकृत्य सोमनाथ-महादेवमन्दिरस्य मूलशिल्पिनोऽन्वये जातः शिल्पी अन्वेषितस्तस्य च प्रभासतीर्थक्षेत्रे यथाशीघ्रं नूतनं सोमनाथमहादेवमन्दिरं निर्मातुमनुरुद्धवान् । मन्दिरनिर्माणार्थं च कुमारपालेन राज्यकोशाद् विपुलं धनमर्पितम् । यदा च देशजनैर्जीर्णोद्धारवृत्तमिदं ज्ञातं तदा तैरपि पूर्ण श्रद्धया भक्त्या च यथाशक्ति धनमर्पितम् । शिल्पिनाऽपि राज्ञो देशजनानां च भक्त्या श्रद्धया च प्रोत्साहितेन शीघ्रमेव नूतनं रमणीयं विशालं च मन्दिरं निर्मितम् । ततो राज्ञा मन्दिरस्य मुख्यार्चकादिभिश्चर्चयित्वा ज्यौतिषिकैः प्रतिष्ठादिन-मुहूर्त-लग्नादि निर्णीतमुद्धोषितं च सर्वत्र 'सोमनाथमहादेवप्रतिष्ठार्थं सर्वैरपि प्रभासतीर्थे समागन्तव्य'मिति । ततस्तेन हेमचन्द्राचार्येभ्योऽपि प्रतिष्ठायामागमनार्थं विज्ञप्तिः कृता तैश्च सहर्षं स्वीकृत्य कथितं – ‘भवान् सपरिवारस्तत्र प्राप्नोतु वयं तु शत्रुञ्जयादितीर्थयात्रां कृत्वा समागमिष्यामः' । एतज्ज्ञात्वा तु सर्वेभ्योऽपि तद्विरोधिभ्योऽधिकमाश्चर्यं सञ्जातम् ।
ततो यथाकालं सर्वेऽपि राजामात्यादयः सपरिवारास्तत्र प्राप्ताः । आचार्या अपि पादचारेण तीर्थयात्रां कुर्वाणाः प्रतिष्ठाकाले तत्रोपस्थिताः । एतेन भावबृहस्पति - विश्वेश्वरकवि-प्रमुखा अतीव प्रसन्ना जाता: । वैक्रमे १२११तमे संवति महामहेनैषा प्रतिष्ठा जाता । तदा च हेमचन्द्राचार्यैर्भावबृहस्पत्यादिभिः सह शिवपुराणवर्णितविधिना महादेवस्य आह्वाना - ऽवगुण्ठन-मुद्रान्यास - विसर्जनादि कृत्वा तत्प्रतिष्ठा कृता। ततो *महादेवद्वात्रिंशिकयाऽन्यैश्च स्तोत्रैर्भावपूर्णा स्तुतिरपि विहिता - यथा -
त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं साक्षाद् येन यथा स्वयं करतले रेखात्रयं साङ्गुलि । राग-द्वेष-भयामयान्तक-जरा-लोलत्वलोभादयो नाऽलं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ॥
* महादेवद्वात्रिंशिकाऽत्रैव ग्रन्थेऽन्यत्र प्रदत्ताऽस्ति ।
७१