________________
प्रजाः शान्ता दया-परोपकार - सहिष्णुता - ऽहिंसादिगुणोपेताः जाता: * । तासां कुलं मूलं चाऽतीव गौरवशालि गभीरं च वर्तते ।
अथ च गूर्जरप्रदेशस्यैव प्रजाजनानामन्यतमा आसन् कलिकालसर्वज्ञाः श्रीहेमचन्द्राचार्याः । तैर्हि कथं निजजीवनं ज्ञान-दर्शन- संयमोपशम - योगादिगुणैः प्रोज्ज्वलं कृतं कथं च कल्पनातीतो विशालो ग्रन्थराशिर्विरचितो, गूर्जरदेशश्च भाषा - संस्कार - दयादिगुणैः समृद्धीकृत्य कथं हेमयुगः प्रवर्तित इत्येतज्ज्ञातुं चलन्तु भो रसिकजनास्तेषां जीवनचरित्रयात्रायां प्रतिष्ठामः । किन्तु स्थीयतां क्षणं, प्रथमं तावत् तेषामेव गुणगभीरां गौरवशालिनीं पवित्रां च गुरुपरम्परामपि जानीमहे यत्र सञ्जाताः प्रत्येकं गुरुभगवन्तः स्वपरहितैकरता ज्ञानिनो विशुद्धाचरणनिष्ठा जिनशासनसमर्पिताश्चाऽऽसन् ।
जैनानामन्तिमतीर्थकृतां श्रीमतां महावीरस्वामिनां प्रमुख शिष्याणां श्रीसुधर्मस्वामिनां परम्परायां कालक्रमेण चतुरशीतिर्गच्छाः संभूताः । तेषामन्यतमोऽस्ति पूर्णतल्लगच्छः । तस्मिंश्च गच्छेऽन्यदा श्रीदत्तसूरय नाम्नाऽऽचार्या आगमज्ञा अत्यन्तं प्रभावकाश्च सञ्जाताः । ते ह्येकदा चारं चारं वाग्जर्डदेशे रत्नपुरनगरे समागता: । तैः सह तेषां बहुश्रुतः शिष्यसमुदायोऽप्यासीत् । अथ च तस्मिन्नगरे यशोभद्र नाम्ना भद्रपरिणतिर्दानी च राजा शास्ति स्म । मुनयश्चैते साचार्या राजप्रासादाभ्यर्णदेशे एव वसतिं याचित्वा स्थिताः । तान् वन्दितुं प्रत्यहं बहवो भाविकजनाः समागच्छन्ति स्म । तेषां च विज्ञप्त्याऽऽचार्यभगवन्तस्तेभ्यो धर्मदेशनामपि श्रावयन्ति स्म । संसारस्वरूपबोधिनीं सुमधुरां धर्मदेशनां श्रुत्वा नैके जनाः संवेगवासिताः सन्तो मुनिदीक्षां गृह्णन्ति स्म नैके च श्रावकोचितव्रतानि गृह्णन्ति स्म । एवमेव दिनानि व्यतियन्ति स्म ।
अथैकस्यां रात्रौ यशोभद्रो नृपः स्वप्रासादगवाक्षे उपविष्टः आसीत् स्वीयपरिवारेण सह । तावता तेन निकटवसतौ स्थितानां मुनीनां स्वाध्यायपरायणानां मधुरध्वनिः श्रुतः । तच्छ्रवणेनाऽऽह्लादितहृदयस्य तस्य चित्ते संवेगो जागृतः, चिन्तितं च तेन यद् – “धन्याः खल्वेते मुनयो ये निष्पापाः सन्तः केवलमात्मसाधने धर्माराधने च निरताः समयाकुर्वन्ति । तदेतेषां पादपद्मप्रणत्याऽहमपि स्वीयमात्मानं विगतपापं धन्यं च करिष्यामि प्रातःकाले" ।
प्रभाते च कृतसर्वकर्तव्यः स सर्वेणाऽपि मन्त्रि - सामन्तान्तः पुरादिपरिवारेण परिकरितः सन् श्रीदत्तसूरीनाचार्यपादान् वन्दितुं तेषां वसतौ समागतः । तत्र च स आचार्यभगवत्पुरतो भूमौ स्वशिरो नामयित्वा भक्तिभावपूर्वकं वन्दितवान् साश्रुः साञ्जलिश्च विनिवेदितवान् - 'भगवन्तः ! धन्या यूयं ये खलु संसारासारतां विज्ञाय सर्वसङ्गत्यागं कृत्वाऽऽत्मकल्याणनिरताः परलोकं साधयथ । वयं त्विहलोकमात्रप्रतिबद्धाः भौतिकसुखरताश्चाऽऽरम्भ - परिग्रहादिभिः केवलं पापमेव चिनुमः' ।
★ लोकमान्यतिलकेन स्वीये प्रवचने एकदा कथितमिदम् । मेवाडप्रदेशसमीपवर्ती प्रदेशः ।
+
४७