________________
गुरुभिरपि तं लघुपापं हितकाक्षिणं च ज्ञात्वा तस्मै मानुष्यदौर्लभ्य-मोहप्राबल्यादिबोधिनीहपरोभयलोकसाधनप्रेरिका च धर्मदेशना प्रदत्ता । तां श्रुत्वा तस्य हृदये धर्मानुरागाङ्कराः प्रस्फुटिताः । तेन गुरुपादौ प्रणम्य कथितं - 'भगवन्तः । भवद्भिरुभयलोकसाधनी या प्रेरणा प्रदत्ता साऽपूर्वैव, यतः प्रियतमोऽपि जनः केवलमिहलोकसुखार्थमेव प्रेरयति खलु । तद्भवतां प्रेरणा मम हृदये लग्नाऽस्ति । उचितकालेऽहमवश्यं राज्यमिदं त्यक्त्वा भवतां चरणयोः शरणं स्वीकृत्य निजजनु सफलीकरिष्यामि ।' ततः स पुनः पुनः गुरुपादौ प्रणम्य स्वस्थानं गतः, आचार्यभगवन्तोऽपि सपरिवाराः कतिपयदिनानन्तरं ततोऽन्यत्र विहृत्य गताः ।
इतश्च राजाऽन्यदा शरत्काले स्वीयक्षेत्रेषु सञ्जातं धान्यजातं विलोकयितुं सीमनि गतवान् । तदात्वे च कर्षकैनिष्फलं तृणादिकं पुञ्जीकृत्य ज्वालयितुमारब्धमासीत् । राज्ञाऽपि तमग्नि विलोकयता सहसा दृष्टं यदेका गर्भवती सर्पिणी तस्यैवाऽग्नेमध्ये कुतोऽप्यागता दग्धाऽस्तीति । तन्मनसि हाहाकारो जातः । पश्चात्तापक्लिन्नहृदयः स सबाष्पनेत्रश्चिन्तितवान् - 'नूनं गृहवासो हि महतां पापानां जनिस्थानमस्ति । अस्य त्याग एव श्रेयस्करः' । एवं च तस्य चित्तं वैराग्यरङ्गरञ्जितं जातम् । स सत्वरमेव स्वनगरं प्राप्य कञ्चिच्छ्रावकमाकारितवान् पृष्टवांश्च- 'महाभाग ! पूज्याः श्रीदत्तसूरिभगवन्तोऽधुना किं वा स्थानं पावयन्ति ?' तेनोक्तं - 'स्वामिन् ! अधुना ते भगवन्तो हि डिण्डुआणकपुरे विराजन्ते' । श्रुत्वैतत् सन्तुष्टो राजा तं सम्मान्य प्रेषितवान् स्वयं च रात्रावेव कमप्यनापृच्छ्याऽश्वारूढो गुरुभगवतां पार्वे समागतः ।
ततः प्रभाते गुरुभगवतो वन्दित्वा साञ्जलिविज्ञप्तवान् - प्रभो ! मयि कृपां कृत्वा दीक्षादानेनाऽनुगृह्णन्तु माम्' । गुरुभगवद्भिरपि तस्य शुद्धभावं ज्ञात्वा तद्विज्ञप्तिरङ्गीकृता । ततस्तेन स्वकण्ठस्थितो बहुमूल्यो रत्नहारः श्रावकेभ्यो दत्त्वा तन्मूल्येन नूतनं जिनमन्दिर निर्मातुमुपरुद्धम् । श्रावकैरपि तदङ्गीकृत्य शीघ्रमेव मनोरम्यो जिनालयो निर्मापितो योऽद्याऽपि यशोभद्रनृपस्य मूर्तिमत् पुण्यमिव विलसतितराम् ।* ततः प्रशस्ते दिने शुभे मुहूर्ते च राज्ञे गुरुभगवद्भिर्दीक्षा प्रदत्ता । दीक्षावसर एव राज्ञा प्रतिज्ञा कृता यद् - 'अद्यप्रभूति यावज्जीवमेकान्तरदिने उपवासः कर्तव्यः, तत्पारणके चाऽऽाम्लमेव कर्तव्य'मिति ।
दीक्षानन्तरं च यशोभद्रमुनिर्यथाप्रतिज्ञं तीव्रतपश्चरणं शुद्धव्रतपालनं च कुर्वन् सहैव कठोरपरिश्रमेण श्रुतसागरमप्यवगाह्य क्रमश आचार्यपदमपि प्राप्तवान् । अतः परं यशोभद्रसूरय इति विख्यातास्ते बहुषु ग्राम-नगरादिष विचरन्तो नैकान् भव्यजनान् प्रतिबोधयन्ति स्म यथोचितं साधुव्रतानि श्रावकोचितव्रतानि वा तान् ग्राहयति स्म । एवं च विपुलशिष्यपरिवारयुतास्तेऽन्यदा स्वपदे प्रद्युम्नसूरिरिति स्वीयं समर्थं शिष्यमाचार्यत्वेन स्थापयन्ति स्म ।
तत एकदा तीव्रतपःशोषितदेहास्ते विहरन्तः सपरिवारा उज्जयन्त(गिरनार)पर्वते समागताः । तत्र
* आ.सोमप्रभसूरिः कुमारपालप्रतिबोधग्रन्थे कथयतीदम् । + आचाम्लमिति दिने एकवारमेव रूक्षः शुष्को रसहीनश्चाऽऽहारो ग्रहीतव्यः ।
४८