SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ गुरुवर्या जिनेश्वरसूरयोऽन्ये च बुद्धिसागरव्याकरणरचयितारो बुद्धिसागरसूरयोऽपि तस्य राज्ञः सभायां धर्मबोधनार्थं नित्यं समागच्छन्ति स्म । अथ श्रीदुर्लभराजभ्रातृनागदेवपुत्रस्य ( प्रथम ) भीमदेवस्य तु मातुला एव प्रसिद्धजैनाचार्या द्रोणाचार्याभिधा आसन् । एतैर्हि श्रीमदभयदेवसूरिविरचितानामागमग्रन्थटीकानां संशोधनं कृतमासीत् । तेषां च शिष्यैः सूराचार्याभिधैर्हि भोजराजप्रेषिताय गाथाया यथोचितमुत्तरं प्रदत्तमासीत् धारां च गत्वा भोजराजस्य सभापण्डिताः स्वीयप्रतिभाबलेन निर्जिताः । भीमदेवस्य पुत्रः कर्णदेवोऽपि जैनाचार्याणामुपदेशान् शृणोति स्म तेभ्यश्चाऽऽरं प्रदत्ते स्म । तत्पुत्रः सिद्धराजो जयसिंहो विद्वान् नीतिमान् सर्वधर्म - मतसमन्वयेच्छुकश्चाऽऽसीत् । तस्य शासने पत्तने समागतानां श्रीमदभयदेवसूरीणां संयमादिगुणैराकृष्टः स तेभ्यो मलधारीति बिरुदं दत्तवान् । तेषामेव शिष्याणां मलधारि श्रीहेमचन्द्रसूरीणां प्रवचनं धर्मोपदेशं च श्रोतुं स यथावकाशं गच्छति स्म । तेषामुपदेशेन स राजा स्वीयराज्ये अशीतेर्दिनानाममारिघोषणमपि कारितवान् । तस्य सभायामेव वादिश्रीदेवसूरयो वादे दिगम्बराचार्यं कुमुदचन्द्राभिधं पराजितवन्तः । ततश्चाऽस्माकं चरित्रनायकाः कलिकालसर्वज्ञाः श्रीहेमचन्द्र - सूरयोऽपि तस्य राज्ञो विद्याक्षेत्रे धर्मक्षेत्रे चाऽनन्या मार्गदर्शकाः सञ्जाताः। तस्य राज्ञोऽन्वये सञ्जातस्य श्रीकुमारपालस्य तु ते पदे पदे प्रष्टव्या गुरव एवाऽऽसन् । तेषामुपदेशेन चाऽनेनाऽष्टादशसु देशेषु जीवदयाऽमारिघोषणं च प्रवर्तितम् । तदारभ्यैव गूर्जरदेशे यज्ञ-यागादिष्वपि जीववधो निषिद्धो जातः । मांसभक्षणं मद्यपानं च सर्वथा प्रतिषिद्धं जातम् । ततोऽपि वीरधवलस्य राज्ञ: शासने वस्तुपाल - तेजः पालयोश्च तन्महामात्य - सेनापत्योः जैनमन्त्रिणो राज्यकार्यकर्त्रीः सतोर्जैनाचार्याणां विजयसेनसूरिप्रमुखाणां मार्गदर्शनं प्राधान्यं भजति स्म । एवं नैके गूर्जरदेशीया राजानस्तदनन्तरमपि जैनसाधूनां मार्गदर्शनेनोपदेशेन च हिंसा - मद्यपानादिनिवारणां कृतवन्त: । अरे ! मोगलबादशाह अकब्बरोऽपि जैनाचार्य श्रीहीरविजयसूरीणां गुणै रञ्जितहृदयस्तेभ्यः सकाशाद् धर्मोपदेशश्रवणं कृतवान् तेषां प्रेरणया च समग्रे देशे षाण्मासिकीममारिघोषणां (अहिंसाघोषणां) कारितवान् । अस्तु तावत् । प्रकृतं प्रस्तुमः । एवं च जैनसाधूनां सततं विचरणेन संस्कारदानेन च गूर्जरदेशस्य * भोजराजप्रेषिता गाथा - सूराचार्यस्योत्तरम् - + दृश्यताम् आइन् -ए-अकबरी, अकबरनामा च । हेलानिद्दलियगइंदकुंभपयडियपयावपसरस्स । सीहस्स मएण समं न विग्गहो नेव संधाणं ॥ अंधयसुयाणकालो, भीमो पुहवीइ निम्मिओ विहिणा । जेण सयं पि न गणियं का गणणा तुज्झ एक्कस्स ॥ ४६
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy