SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रारम्भे तु गूर्जरदेशो लघुरेवाऽऽसीत्, किन्तु शनैः शनैः तच्छासकानां शौर्य-पराक्रम-नीतिबलेन तस्य सीमानो विस्तारं प्राप्ताः । देशस्य प्रजाभिरपि निकटस्थ-मालवदेश-श्रीमालदेश-वलभीप्रदेशादीनां संस्कति-संस्कारादीनामाधारेण स्वसंस्कृति-संस्कारादयोऽकरिता वृद्धि प्रापिताश्च । किन्तु तासां(प्रजानां) धर्मसंस्कार-प्रेम-दया-ऽहिंसादयस्तु जैनमुनिभिरेवाऽऽमूलमारोपिता अङ्करिता: पल्लविताश्च । जैनाचार्यैर्हि जानद्भिरजानद्भिर्वा गूर्जरप्रजानां मानसं संस्कर्तुं पूर्णतया प्रयतितमस्ति । यतः पूर्वोत्तरदेशेभ्यो निःसृतानां जैनानां प्रथममाश्रयस्थानं राजस्थानप्रदेशस्ततश्च गर्जरदेशो जातोऽतस्तौ द्वावपि देशौ संस्कर्त धर्मसमद्धं च कर्तुं जैनसाधुभिः स्वीयं सर्वं सत्त्वं व्यापारितमिति यदि कथ्येत तदा नाऽस्ति अतिशयोक्तिः । इतिहासविदोऽपि वदन्ति यद् भिन्नमाल-वलभ्योः पतनानन्तरं गूर्जरदेशं गूर्जराणां शासनं च स्थापयितुं द्रढयितुं च जैनमन्त्रिभिर्जेन श्रेष्ठिभिश्चैवाऽत्यधिकतया प्रयतितं साफल्यं च प्राप्तमस्ति । कथनमिदं सर्वथा वास्तविकमस्ति । गूर्जराणां प्रथमस्य राज्ञो वनराज-चापोत्कटस्य मन्त्रिणो जाम्बश्रेष्ठिन आरभ्य आधुनिकसमये श्रेष्ठिश्रीलालभाई-दलपतभाई इत्येनं तथा श्रेष्ठिश्रीकस्तूरभाई-लालभाई-इत्येनं यावत् पश्येम तदा ज्ञायते यद् राजकीयपरिस्थितिषु जैनानां वर्चस्वं प्रभावश्च कीदृशोऽस्तीति । यद्यप्यैदंयुगीना जैनश्रेष्ठिनो न तथा राजकीयप्रभावयुताः सन्ति तथाऽपि तथ्यमेतत् तु जगद्विदितमस्ति यद् भारतदेशस्याऽधिकांशं वाणिज्यं जैनश्रेष्ठिन एव कुर्वन्तीति । एवं च गूर्जरदेशस्य तत्प्रजानां च संस्करणे समृद्धीकरणे च मुख्यभागो जैनानामस्ति । ब्राह्मणानामन्येषामपि धर्मिणां तत्र भागोऽस्त्येव - इति तु सर्वथा स्वीकार्यमेव, तथाऽपि अहिंसा-दया-निरुपद्रवितादिगुणान् प्रजानां मानसे प्रवाहयितुं स्थिरीकर्तुं च जैनाचार्यैर्यथा यावच्च प्रयतितं तथा तावच्च नाऽन्यः । अद्यत्वे गूर्जरराज्यादन्यानि राज्यानि पश्येम, यत्र पुरा ब्राह्मणादीनामेव वर्चस्वमासीत्, तत्र हिंसा-मांसभक्षणमद्यपानादयः सर्वथा सुलभाः । ननु ब्राह्मणजातीया एव मांसाहारं कुर्वाणा अपि दृश्यन्ते कुत्रचित् । एतद्वैपरीत्येन यत्र पूर्वं जैना आधिक्येनोषितास्तत्राऽहिंसा-शान्त्यादीनि विलोक्यन्तं एव । गूर्जरदेशमेवाऽधिकृत्य वदेम तदा गूर्जरदेशे चापोत्कटवंशीयानां शासनस्याऽऽद्यस्थापकस्य वनराजचापोत्कटस्य गुरवो जैनाचार्याः श्रीशीलगुणसूरय आसन्, येषां धर्मपूर्ण मार्गदर्शनं प्राप्य वनराजेन स्वीयवंशस्थापना न्याय्येन पथा दृढीकृता । ततश्च तदारभ्य गूर्जरदेशस्य राजधान्यां श्रीमदणहिल्लपुरपत्तने राजसभायां जैनसाधूनां स्थानं महत्त्वपूर्ण स्थिरं च जातम् । ततश्चौलक्यवंशस्थापकस्य मलराजदेवस्य शासनेऽपि जैनाचार्याणां स्थानमविचलमासीत् । तत्पत्रेण चामण्डराजेन तु स्वीये शासने श्रीमतो वीरगणिनो जैनमनेराचार्यपदप्रदानमहोत्सवः कारित आसीत्, ते चाऽऽचार्या निजगुरुपदे स्थापिताः । तस्य पुत्रेण दुर्लभराजेन स्वीये शासने सर्वेषामपि जैनसाधूनां पत्तननगरे वासायाऽनुमतिः प्रदत्ता । तदवसरे च समागता जैनागमटीकाकृतां श्रीमदभयदेवसूरीणां * यथा महाराष्ट्रे । + यथा कर्णाटके। ४५
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy