________________
मासीत् । अतो बहवो जैनसाधवस्तत्रैव समागताः । तानेवानुसरन्तो जैनश्रावका गृहस्थाश्चाऽपि समागताः । ते च स्वेन सह भाषां, जैनसंस्कृति, जैनग्रन्थान्, लिपि, लेखनकलां, मुख्यतश्चाऽहिंसामयं दयापूर्णं च धर्ममपि समानीतवन्तः । अनेन राजस्थाने मेवाडप्रदेशे मरु(मारवाड)प्रदेशे च शनैः शनैः जैनधर्मप्रसारो जातः ।
अथ च राजस्थानादपि जैनसाधवो विहृत्य विहृत्य दक्षिणे सौराष्ट्रदेशे, वलभीप्रदेशे, लाटप्रदेशे चाऽपि गताः । तत्र च पूर्वमेव बौद्धानां प्रसर आसीत् । ते हि अशोकस्य कालादेव राज्याश्रयं प्राप्ताः सन्तोऽत्र बद्धमूलाः सञ्जाताः । (तेषां स्थानानि अद्याऽपि गिरिनगरे (जूनागढ) तालध्वजे (तलाजा[भावनगरं]) च द्रष्टुं शक्यानि ।) एतेषां त्रयाणामपि प्रदेशानां मध्यविभाग आनर्तप्रदेशतयोपलक्ष्यमाणोऽथाऽपि विकसितो नाऽऽसीत् । तत्र हि बहुश आभीरजातयोऽन्याश्च तादृश्यो यायावरजातयो वसन्ति स्म ।
विक्रमस्य सप्तमे शतके समग्रे भारते विचरितो ह्यु-एन-त्सांगः स्वपरिभ्रमणलेखेषु मो-ला-पो (मालवः), फ-ल-पी (वलभी), कु-चे-लो (गूर्जर:-भिन्नमालः), सु-ला-चा (सुराष्ट्रा), युह-शं-तो (उज्जयन्तः-गिरिनगरम्) इत्यादीनुल्लिखन् कथयति यदेते प्रदेशा अतीव समृद्धाः सन्ति । अत्र बौद्धानां शतशो विहाराः सन्ति, अन्येषामपि च धर्माणां मन्दिरादिस्थानानि सन्ति - इति ।
इतश्च भिन्नमाल(श्रीमाल)प्रदेशे गूर्जरज्ञातीया राजपुत्राः क्षत्रियाश्च किञ्चिदिव दुर्बला जाता आसन् । अतस्ते शनैः शनैस्ततो निःसृत्याऽऽनर्त-सौराष्ट्रादिप्रदेशेषु समागत्य तत्रैव वसन्ति स्म । अत आनर्तप्रदेशोऽपि शनैः शनैर्विकासं प्राप्तः । एतेन जैनसाधवोऽपि तत्र विहरन्तः समागताः । तत्रत्यांश्च जनान् धर्म-संस्कारादिषु मार्गदर्शनं कृतवन्तः । तथा च स प्रदेशो धर्म-संस्कारादिभिः समद्धो जायमान आसीत् ।
____ अथ च तदात्वे श्रीमालदेश-लाटप्रदेश-सौराष्ट्रप्रदेश-वलभीप्रदेशादिषु जैनानां बौद्धानां च मध्ये बहवो वाद-विवादा जायन्ते स्म । बौद्धाश्च राज्याश्रयं प्राप्तत्वात् अधिकसमर्था आसन्, अतोऽपि जैनास्तेषां साम्मुख्यं कर्तुं किञ्चिदिवाऽशक्ता आसन् । तावता वलभीप्रदेशे स्थितेन प्रभावकेण महाजैनाचार्येण मल्लवादिगणिक्षमाश्रमणेन बौद्धैः सह वादं कृत्वा ते जिताः । तत्राऽयं पणबन्ध आसीत् – यदि जैनाः पराजिता भवेयुस्तदा तैबर्बोद्धानां शिष्यत्वमङ्गीकर्तव्यं, यदि च बौद्धाः पराजिताः स्युस्तदा तैर्देशत्यागः कर्तव्यः । ततश्च बौद्धा (श्रीमालदेशाल्लाटप्रदेशं यावत्) देशत्यागं कृत्वा निर्गताः ।*
इतश्च विक्रमस्य नवमे शतके वलभीप्रदेशस्य तुरुष्कैर्भङ्गः कृतः । अन्यतः पूर्वोत्तरभारते शङ्कराचार्यस्य प्रभावेण शिष्टा जैना अपि ततो निर्गत्य पश्चिमभारतं समागताः । श्रीमालप्रदेशाच्चाऽधिकाधिकगूर्जरा आनादिप्रदेशेषु समागताः । अतस्तदात्व एव गूर्जराणामाधिक्यात् स प्रदेशः गूर्जरदेशतया प्रसिद्धो जातः । गूर्जरेष्वपि मुख्यतः चापोत्कट (चावडा) वंशीयाः क्षत्रिया एव तत्र प्रबला आसत्, अतस्ते एवाऽत्र प्रदेशे शासका जाताः ।
* बौद्धानां पश्चिमभारतान्मल्लवादिना, दक्षिणभारतादकलङ्कदेवेन, शेषभारताच्च शङ्कराचार्येण देशत्यागः कारितः ॥
४४