________________
सर्वमप्येकमेवगूर्जरदेशं विचारयामः, सहैव तादात्विकी कालपरिस्थितिमपि किञ्चिद् विलोकयामः । गूर्जरराज्यस्य (गूजरातस्य) अद्यैका स्वतन्त्रा स्वारस्यपूर्णा चाऽभिव्यक्तिरस्ति । बहुशो गूर्जरजनानन्ये जना निर्बलतया भावयन्तः किञ्चिद् हीनतया प्रेक्षन्ते । किन्तु गूर्जरसदृशाः साहसिकाः पराक्रमिणो धीराश्च जना अत्यल्पाः सन्ति । प्राच्यकाले समग्रोऽपि सामुद्रिकवाणिज्यव्यापारः प्रायशो गूर्जरजनाधीन एवाऽऽसीत् । वाणिज्यमाध्यमेन ते सर्वत्राऽपि जगति गच्छन्ति स्म, वसन्ति स्म, तत्रत्यैश्च जनैः सहाऽऽनुकूल्येन सम्मिलन्ति स्म चाऽपि । गर्जरवणिजो जावा-समात्रा-ब्रह्मदेश-नेपाल-चीन-पारसकल-आफ्रिका-ग्रीस-रोमप्रभतिदेशेष्वपि वाणिज्यार्थं भ्रमणं कुर्वन्ति स्म । तत्रत्यां संस्कृति कलादिसमृद्धिं चाऽत्राऽऽनयन्ति स्म, अत्रत्यां च तत्र तत्र नयन्ति स्म । अरे ! आफ्रिकीयदेशेषु वाणिज्यार्थं वसितुं गताः सर्वप्रथमं विदेशिनो गौर्जरा एव । यूरपीयास्तु ततो बहुकालान्तरं तत्र प्राप्ताः । इयं च परम्पराऽऽधुनिकै!जरैरपि अक्षुण्णतया रक्षिताऽस्ति । अद्य सर्वत्राऽपि जगति स्वीयवाणिज्यकलया गूर्जराः प्रसिद्धाः सन्ति । गूर्जरधनिकानां नामानि सम्प्रति वैश्विकसामयिकेष्वपि सादरं गृह्यन्ते । न चैतावत्, गूर्जरा वैज्ञानिकाः, सारस्वताः, विविधशाखीया विद्वज्जनाश्चाऽद्य विश्वप्रसिद्धाः सन्ति । सर्वतोऽप्यधिकं त्वेतद् यद् - गूर्जरजना मूलत एव निरुपद्रविणः, शान्ताः, दयालवः, अहिंसकाः, मिलनशीलाः, सहिष्णवः, संस्कारिणश्च सन्ति ।
___ अत्र प्रश्नोऽयं जायते यद् ईदृश्या गूर्जरप्रजायाः मूलं कुलं च कुत्र वर्तते ? इति । किन्त्वस्योत्तरं प्राप्तुमितिहासपृष्ठानि अवलोकनीयानि । विक्रमात् पूर्वं तृतीयशताब्द्यामैदम्प्राथम्येन गूर्जरप्रदेशस्य सौराष्ट्रस्य चोल्लेखाः प्राप्यन्ते मौर्यकालीनेष्वशोकादीनां शिलालेखेषु - गिरिनारपर्वतस्य तलहट्टिकायाम् । यद्यपि तदात्वे गूर्जर-इति नामोल्लेखो नाऽऽसीत् । एकतो गिरिनगरं सौराष्ट्रदेशश्च, अन्यतो वलभीसाम्राज्यं, मध्ये चाऽविकसितोऽर्धविकसितो वाऽऽनर्तप्रदेशो दक्षिणे च लाटदेश आसीत् । (उत्तरे च राजस्थानप्रदेशे मरुभूमौ श्रीमालनगरे गूर्जराणां राज्यमासीत् ।) अत्र च विक्रमस्य प्रथमशतीं यावन्मौर्यवंशीयानां साम्राज्यमासीत् । ततो द्वितीयात् पञ्चमं शतकं यावदत्र क्षत्रपवंशीयनृपाणां शासनमासीत् । अथ च तत्काले भिन्नमालनगरे (श्रीमालनगरे) गूर्जराणां साम्राज्यं किञ्चिदिव दुर्बलं जातम् । अतस्ते शनैः शनैः ततो निःसृत्याऽऽनर्तादिप्रदेशेषु समागतास्तत्रैव चोषिताः ।
इतश्च पूर्वभारते मगध-वङ्गोत्कलादिदेशेषु वारं वारं दुर्भिक्ष-दुष्कालादयः प्राकृतिकविपत्तयः समजायन्त । तथा मगधेष्वपि शुङ्गवंशीया राजानस्तदात्वे शासति स्म । तैश्चाऽत्याचारं कृत्वा जैना बौद्धाश्च साधवो भृशं पीडिताः । अतः सर्वमेतत् सम्मुखीकर्तुमशक्नुवन्तोऽथाऽपि च स्वस्य मार्गस्य चाऽस्तित्वं रक्षितुं बद्धादरास्ते पूर्वभारताच्छनैः शनैः निःसृत्य पश्चिमं मध्यं दक्षिणं च भारतं प्रति प्रस्थिताः । तत्रापि जैनानां द्वौ विभागावपि प्रायशस्तदात्व एव सञ्जातौ । तयोश्च दिगम्बराः साधवो मुख्यतो दक्षिणभारतं प्राप्ताः, श्वेताम्बराश्च मध्यं पश्चिमं च भारतं प्राप्ताः । तत्र च राजस्थानं पूर्वमेव जैनसाधुभिर्भावित* श्रीपार्श्वनाथसन्तानीयाः श्रीरत्नप्रभसूरिप्रमुखा आचार्या भगवतो महावीरस्य निर्वाणादचिरमेवाऽत्र समागता आसन् । तैश्चाऽत्रोपकेशनगरे
लक्षशो जना जैनधर्मेण भाविता: उपकेश(ओसवाल)गोत्रस्य च स्थापनाऽपि कृता ।
४३