SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अयि भोः ! संस्कृतभाषा - काव्य - साहित्य- तर्क - योग-पुराणेतिहासप्रभृतिविद्याध्ययनाध्यापनसर्जनादिपटिष्ठा विद्वज्ज्येष्ठा: ! परिचितचरा एव तत्रभवतां भवतां पाणिनि - मम्मटानन्दवर्धनामरसिंहकालिदासाक्षपाद-पतञ्जलि - व्यासादयो महर्षयो महाकवयो ग्रन्थकाराश्च । एतैर्विना हि समग्रा अपि पूर्वोक्ता विद्याशाखा: शून्यायेरन् खलु ! किन्त्वेतेषामेव विविधदेशेषु विविधकालखण्डेषु च सञ्जातस्थितिकानां समन्वय एकस्मिन्नेव देशे एकत्र चैव कालखण्डे एकस्यां चैव व्यक्तौ सञ्जात इति वार्ता कदाचित् कर्णनयन-मनोगोचरा स्यात् तदा सा किं श्रद्धेया भवेत् खलु ? नैव । असम्भवितमेवैतत् किल ! कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्याणां जीवनचरितम् मुनिकल्याणकीर्तिविजयः तथाऽपि एतस्मिन्नेव भारते देशेऽसम्भवितमपि तथाऽश्रद्धेयमप्येतत् सञ्जातमेव । कदा ? कुत्र ? इतिप्रश्नावलिरुत्तिष्ठेतैव नो मनस्येतत् श्रुत्वा । अरे ! इदामिदानीमेवाऽस्मिन्नेव सहस्राब्देऽत्रैव च गूर्जरदेशेऽसम्भवितमप्यश्रद्धेयमपि चैतत् सञ्जातं कलिकालसर्वज्ञानां श्रीमतां हेमचन्द्राचार्याणां जीवने । तेषां नित्यस्मरणीयमभिधानं केषां देश- विदेशीयानां विदुषामविदितं ननु ! विश्वस्यैकमनुपमं च महाव्यक्तित्वं, भारतीयसंस्कृतेर्यशउज्ज्वला गौरवगाथा, गूर्जरदेशं भाषा-साहित्य-संस्कारैः समृद्धीकुर्वज्जीवत् तपः, ज्ञानमहार्णव(Ocean of knowledge) तया अतिशायिप्रज्ञ (Intellectual giant) तया च सर्वत्र प्रथितं सार्वकालिकं सार्वदेशिकं विश्वजनीनं व्यक्तित्वं किलैतत् - इति तु सर्वथाऽविज्ञापनीयमेव विदुषां खलु । एवंस्थितेऽपि ऐदंयुगीनानां विद्याचणानां विद्यार्थिनां जिज्ञासूनां च कदाचित् जायेताऽपि जिज्ञासा कथङ्कारमेते विश्वस्याऽनुपमं महाव्यक्तित्वं सम्पादितवन्त: ? कथङ्कारं चैते ज्ञानमहार्णवता अतिशायि-प्रज्ञतया च जगति प्रसिद्धाः ? कथं च गूर्जरदेशं भाषा-साहित्य-संस्कारैरेते समृद्धीकृतवन्त: ? कथङ्कारं चैतेषु पाणिनि-मम्मटानन्दनवर्धनामरसिंह- कालिदासाक्षपाद-पतञ्जलि - व्यासादीनां महर्षीणां महाकवीनां ग्रन्थकाराणां च समन्वयः ? इत्यादि । यत् - एताः सर्वाः अन्याश्चाऽनुक्ताः सर्वा अपि जिज्ञासा: शमयितुमेवाऽयमुपक्रमो रचितोऽस्ति । किन्तु स्थीयतां क्षणम् । तैर्हि विश्वजनीनैर्महात्मभिर्यौ देश - कालावलङ्कृतावास्तां तावपि प्रथमं ज्ञैयौ खलु ! अतः ऐदम्प्राथम्येन तावेव प्रथमं विचारयामः । तत्राऽपि प्रथमं तावत् तेषां देशं जन्मभूमिं कर्मभूमिं विचरणभूमि * अपारश्रुतकूपारदृश्यतया सञ्जातकलिकालसर्वज्ञप्रसिद्धेः । ( कुमारपालचरितसङ्ग्रहे) ४२
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy