________________
अद्य गूर्जरजनानां चित्ते सहिष्णुतौदार्यं सर्वधर्मसमन्वयदृष्टिश्चेत्यादयो ये ये गुणा दृश्यन्ते, तेषां मूलमस्ति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यः । सूरिणा उक्तं चाऽपि
आद्यो धर्मो व्रतस्थानां विरोधोपशमः खलु ॥ ___ यं कमपि धर्मं देवं वाऽऽश्रयन्तु, किन्त्वन्येषां धर्माणां देवानां वा तिरस्कारमवहेलनं च न कुर्वन्तु । सदा सर्वैः सह समभावेन व्यवहरन्तु । सूरिणाऽस्य सम्पूर्णतया पालनं कृतम् । कुत्रचिदपि क्लेशो न कृतो न कारितश्च ।
समभावभावितात्मनः कलिकालसर्व-श्रीहेमचन्द्रसूरेश्चरणयोः सूरिपदस्य नवमशताब्दीवर्षे शतशो वन्दनानि ।
श्रीदेवसूरीणां दिगम्बरैः सह वादे जायमाने आचार्यहेमचन्द्रा अपि तेन सार्धं गताः । तदा दिगम्बरः कुमुदचन्द्रवादी स्वयं ज्यायान् किञ्चिद्व्यतिक्रान्तशैशवं श्रीहेमचन्द्रं प्रति 'पीतं तक्रं भवता?' इत्यभिहिते श्रीहेमचन्द्रस्तं प्रति 'जरातरलितमतिः किमेवमसमञ्जसं ब्रूषे ? श्वेतं तक्रं, पीता हरिद्रा' इति वाक्येनाऽधःकृतः 'युवयोः को वादी ?' इति पृच्छन् श्रीदेवसूरिभिस्तिरस्करणाय 'अयं भवतः प्रतिवादी'त्यभिहिते कुमुदचन्द्रः प्राह - 'मम वृद्धस्याऽनेन शिशुना सह को वादः ?' इति तदुक्तिमाकर्ण्य 'अहमेव ज्यायान, भवांस्तु शिशुः योऽद्याऽपि कटीदवरकं निवसनं च नाऽऽदत्से' इति हेमचन्द्रेणोक्तम् ।
(प्रबन्धचिन्तामणिः)