SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जई हिमगिरिहि चडेविणु निवडइ अह पयायतरुहि वि इक्कम । निक्कइअवें विणु समयाचारेण विणु मणसुद्धिऍ लहइ न सिवु जणु ॥८- २०॥ (सं. यदि हिमगिरौ आरुह्य निपतति अथ प्रयागतरौ अपि एकमनाः । निष्कैतवेन विना समयाचारेण विना मनः शुद्धया लभते न शिवं जनः ॥ ) (यदि हिमगिरौ प्रयागवटे चाऽपि आरुह्यैकमनाः निपतति, तथाऽपि निष्कैतवेन समयाचारेण मनः शुद्ध्या च विना जनः शिवं न लभते ।1) तं बोल्लिअइ जु सच्चु पर, इमु धम्मक्खरु जाणि । अहो परमत्था, एहु सिवु, एहु सुहरयणहं खाणि ॥ ८-३९॥ (सं. तत् कथ्यते यत् सत्यं परं इदं धर्माक्षरं जानीहि । एषः परमार्थः, एतत् शिवं, एषा सुखरत्नानां खानि: ।) (केवलं सत्यमेव वदनीयम् - एतदेव धर्माक्षरः, परमार्थः, शिवं सुखनिधिश्च सन्ति, इति ज्ञेयम् ।) सच्चई वयणई जो बुवइ, उवसमु वुञइ पहा । पस्सदि सत्तु वि मित्तु जिम्वं, सो गृण्हइ निव्वाणु ॥ ८-४४ ॥ (सं. सत्यानि वचनानि यो ब्रूते, उपशमं व्रजति प्रधानम् । पश्यति शत्रुमपि मित्रं यथा स गृह्णाति निर्वाणम् II) (यः सत्यवचनानि वदति, सदा उपशमयति, शत्रौ मित्रे च समदृष्टिः, सो जनो निर्व्वाणं प्राप्नोति ।) - इत्यादि । कथं वर्णयानि कलिकालसर्वज्ञस्योदारदृष्टिम् ! द्वौ महापराक्रमिणौ समर्थौ च राजानौ सूरेस्तस्य भक्तौ आस्ताम् । ततो यस्य राजानौ भक्तौ तस्याऽनुयायिवर्गोऽतिविशालः स्यादेवेत्यत्र न काऽपि शङ्का । यदीच्छेत् स तर्हि भिन्नसम्प्रदायस्य स्थापनं कुर्यात्, राज्ञो बलेन बलात्कारेण चाऽपि जैनधर्मानुयायिनः सङ्ख्यावृद्धिं कारयेत्, स्वनामाङ्कितानि बहूनि मन्दिराणि धर्मस्थानकानि ग्रन्थालयान् च निर्मातुं शक्नुयात्, तथाऽपि कुत्रचिदपि स्वस्य स्वधर्मस्य च महत्तां प्रस्थापयितुं प्रयत्नो न कृतः सूरिणा । यत एष सूरीशो न महत्त्वाकाङ्क्षी, नाऽपि चाऽहङ्कारी आसीत्, अपि तु समदर्श्यदारदृष्टिश्चाऽऽसीत् । एतौ द्वौ अपि राजानौ सूरेस्तादृशौ रागिणौ आस्ताम् यतः सिद्धराजेन स्वशासने 'सिद्ध - हेमसंवत्' इत्यस्य तथा कुमारपालेन ' सिद्धहेम - कुमारसंवत्' इत्यस्य प्रारम्भः कृत आसीत् । अत्र सूरीश्वरः केवलं ‘हेमसंवत्, हेम-सिद्धसंवत्, हेम-सिद्ध-कुमारसंवत्' चेति कर्तुं शक्तः आसीत्, किन्त्वदारदृष्टिना सूरिणैवं न कृतम् । ततोऽप्यधिकमौदार्यं त्वेतद् यत्- 'सिद्धराजस्तु कुमारपालस्य शत्रुरूप आसीत्, तथाऽपि सूरिणा सदुपदेशद्वारेण सिद्धराजस्याऽपि नाम कुमारसंवति उल्लेखित 'मिति । ४०
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy