________________
च स्थानं चौलुक्यवंशोद्भवस्य सिद्धराजजयसिंहस्य राज्ये कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्याऽऽसीत् - इति ।
कुमारपालराजं बोधयितुं कलिकालसर्वज्ञेन प्राकृतद्वयाश्रयमहाकाव्ये रचितानि कानिचित् पद्यान्यवलोकनीयानि । तत्र सर्वत्र सर्वदर्शनमान्यकथनान्येव प्रयुक्तानि । सूरेरुदारदृष्टिं प्रमाणीकर्तुमेतान्येव पद्यानि समर्थानि सन्ति । यथा - मोक्षः कथमवाप्येत ? -
अदिशुस्तिदं निविस्टे चदुस्तवग्गविवय्यिदकशाए ।
शावय्य-योगलहिदे शाहू शाहदि अणमणे ॥ ८-२ ॥ (सं. अतिसुस्थितं निविष्टः, चतुर्थवर्गं विवर्जितकषायः ।
सावधयोगरहितः, साधुः साधयति अनन्यमनाः ।।) (अतिसमाहितं यथा भवत्येवं निविष्टो, धर्मध्याननिरतो, वर्जितकषायः, सावद्ययोगरहितो, मोक्षकतानमानसश्च संयतो निर्वाणं साधयति ।)
पुञ्ज निशादपजे सुपञले यदिपधेण वजन्ते ।
शयलययवश्चलत्तं गश्चन्ते लहदि पलमपदं ॥८-३॥ (सं. पुण्यः निशातप्रज्ञः, सुप्राञ्जलः यतिपथेन व्रजन् । सकलजगद्वत्सलत्वं गच्छन् लभते परमपदम् ।)
(पुण्यवान्, निशातप्रज्ञः, कौटिल्यरहितो यतिपथेन व्रजन्, सकलजगद्वत्सलत्वं गच्छन् पुरुषः परमपदं लभते ।)
शपल-विव कालहिदे पेस्कन्ते सव्वमोल्लदिस्टीए ।
मिद-पियमाचस्कन्ते चिष्ठदि मग्गम्मि मो कस्स ॥ ८-४ ।। (सं. स्व-परविवक्षारहितः, प्रेक्षमाणः सर्वमादृष्ट्या । मित-प्रियमाचक्षाणः, तिष्ठति मार्गे मोक्षस्य ॥) (स्व-परविवक्षारहितः, सर्वमार्दद्रष्ट्या प्रेक्षमाणो, मितं प्रियं चाऽऽचक्षाणः, मोक्षस्य मार्गे तिष्ठति ।)
यति अरिहपरममन्तो पढिय्यते कीरते न जीववधो ।
यातिस-तातिसजाती ततो जनो निव्वतिं याति ॥ ८-९ ॥ (सं. यदि अर्हत्परममन्त्रः, पठ्यते क्रियते न जीववधः ।
यादृश-तादृशजातिस्ततो जनो निर्वृतिं याति ।) (जीववधो न क्रियते, इति अर्हतां परममन्त्रं यः परावर्तते स हीनोत्तमकुलोऽपि जनो निर्वाणं याति ।)
३९