SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ कलिकालसर्वज्ञस्य समुदारदृष्टिः मुनिधर्मकीर्तिविजयः अस्मिन् जगति केचिज्जन्मतो महान्तः भवन्ति, केचिच्च कार्यतो महान्तः सन्ति । तेषु केषाञ्चित् प्रभावस्तु तेषां विद्यमानतायामेव प्रवर्तते, किन्तु कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यसदृशाः केचिदेव विरला भवन्ति येषां प्रभावो न केवलं तेषां विद्यमानतायामपि तु सार्वकालिको भवति । एतादृशस्य महापुरुषस्य जीवनं सदा सर्वजनानां हितायैव भवति, सर्वेषां कृतेऽनुसरणीयं चाऽप्यस्ति । जगति बहवो जना जाता यैर्लोकोपयोगीनि बहूनि कार्याणि कृतानि किन्तु तानि कालमहागर्ते विलीनानि जातानि । किन्तु, आनवशतवर्षेभ्यः कलिकालसर्वज्ञस्य नाम सादरं गृह्यते कार्याणि च स्मर्यते सर्वैः, इत्येतदेवाऽस्य महापुरुषस्य महत्तां प्रदर्शयति । कस्मिंश्चित् क्षेत्रे कार्यं कुर्वन्तो महापुरुषास्तु बहवः, किन्तु सर्वेष्वपि क्षेत्रेषु निष्ठापूर्वकं कार्य कुर्वन् त्वेतादृशः कोऽपि विरल एव । एष महापुरुषः सर्वत्र समन्वयवादी समुदारदृष्टिर्दीर्घद्रष्टा चाऽऽसीत् । समर्यादं जैनधर्ममाचरितवानेष महापुरुषो धर्मनिपुणो व्यवहारनिपुणो राजनीतिनिपुणश्चाऽप्यासीत् । अत्राऽऽश्चर्यं त्वेतदेव यदेष राजनीतिनिपुणः सन्नपि निर्लेपतां साधुतां च न त्यक्तवान् । निर्लेपसाधुः सन्नपि व्यवहारदक्ष आसीत् । विश्वमान्यो विद्वान् सन्नपि गर्वरहित आसीत् । तत एव तेन धार्मिकक्षेत्रेण सह व्यवहारक्षेत्रे राजकीयक्षेत्रे सामाजिकक्षेत्रे चाऽपि लोकोपयोगीनि बहूनि कार्याणि कृतानि । स्वप्रज्ञया महापुरुषेणैतेन सर्वेभ्यो नूतना दृष्टिर्नूतना कल्पना च दत्ता । स्वीयोदारदृष्ट्याः प्रभावेणैव स न केवलं जैनेषु गूर्जरदेशे च अपि तु सर्वधर्ममान्यजनेषु समस्ते विश्वे चाऽपि प्रसिद्धि प्राप्तवान्, ततश्च विश्वस्मिन् विश्वे गूर्जरराज्यस्य गणना सञ्जाता । एवं समस्तप्रजानां जीवने जैनधर्मस्य अहिंसादयः सिद्धान्ता व्यापकत्वेन प्रसृताः । स्वजीवने कलिकालसर्वज्ञेन 'स्याद्वाद'शब्द: सार्थकतयाऽनुसृतोऽस्ति । तत एव विख्यातौ पराक्रमिणौ चाऽपि सिद्धराजजयसिंहः कुमारपालश्चेति द्वौ राजानौ तदनुयायित्वं स्वीकृतवन्तौ । एतौ द्वौ राजानौ न जैनधर्मिणौ, अपि तु सर्वधर्मानुरागिणौ आस्ताम् । तथाऽपि कलिकालसर्वज्ञस्य शिष्यत्वाङ्गीकरणे गौरवमनुभवतः स्म । पण्डितशिवदत्तेनैकस्यां पत्रिकायां लिखितम् - संस्कृतसाहित्यस्य विक्रमादित्यराजस्य च काले कालिदासस्य यत् स्थानं, श्रीहर्षस्य च राजसभायां यत् स्थानं बाणभट्टस्याऽऽसीत्, प्रायस्तादृशं, ततोऽप्यधिकं
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy