________________
प्रजापतिसुतो ब्रह्मा, माता पद्मावती स्मृता । अभीचिर्जन्मनक्षत्रं, एकमूर्तिः कथं भवेत् ? ॥२२॥ वसुदेवसुतो विष्णु-र्माता वै देवकी स्मृता । रोहिणी जन्मनक्षत्रं, एकमूर्तिः कथं भवेत् ? ॥२३॥ पेढालस्य सुतो रुद्रो, माता वै सत्यकी स्मृता । मूलं च जन्मनक्षत्रं, एकमूर्तिः कथं भवेत् ? ||२४|| चतुर्मुखो भवेद् ब्रह्मा, त्रिनेत्रस्तु महेश्वरः । चतुर्भुजो भवेद् विष्णुः, एकमूर्तिः कथं भवेत् ? ॥२५।। रक्तवर्णो भवेद् ब्रह्मा, श्वेतवर्णो महेश्वरः ।। कृष्णवर्णो भवेद् विष्णुः, एकमूर्तिः कथं भवेत् ? ॥२६।। ज्ञानं विष्णुः सदा प्रोक्तं, चारित्रं ब्रह्म उच्यते । सम्यक्त्वमीश्वरः प्रोक्तः, अर्हन्मूर्तिस्त्रयात्मिका ॥२७॥ क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकाश-सोम-सूर्याख्याः । इत्येतेऽष्टौ भगवति, वीतरागे गुणाः प्रोक्ताः ॥२८॥ क्षितिरित्युच्यते क्षान्ति-र्जलं शान्तिः प्रसन्नता । निस्सङ्गता भवेद् वायु-र्हताशो योग उच्यते ॥२९॥ यजमानो भवेदात्मा, नभो दान-दयादिभिः । सोममूर्तिर्भवेच्चन्द्रो, ज्ञानमादित्य उच्यते
॥३०॥ पुण्य-पापविनिर्मुक्तो, राग-द्वेषविवर्जितः । अतोऽर्हद्भ्यो नमस्कारः, कर्तव्यः सिद्धिमिच्छता ॥३१॥ अकारेण भवेद् विष्णू, रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्त-स्तस्याऽन्ते परमं पदम् । ॥३२॥ भवबीजाङ्करजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, महेश्वरो वा नमस्तस्मै
॥३३॥
॥ महादेव-बत्तीसी ॥
३७