SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 5 | कलिकालसर्वज्ञश्रीहेमचन्दाचार्याणामाचार्यपदस्य नवमशताब्दी निमित्तीकृत्याऽऽयोजित: श्रीहेमचन्दाचार्यचन्दकार्पणसमारोहः कीर्तित्रयी अहमदाबादनगरे श्रीहठीसिंह-केसरिसिंहवाटिकामध्ये २०६६तमस्य विक्रमाब्दस्याऽऽश्विनशुक्लद्वितीयातिथौ ९-१०-२०१०तमे दिनाङ्के शासनसम्राटश्रीविजयनेमिसूरीश्वरसन्तानीयानां पूज्याचार्यश्रीविजयसूर्योदयसूरीश्वर-श्रीविजयशीलचन्द्रसूरीश्वराणां पुण्यसान्निध्ये तेषामेव प्रेरणया स्थापितायाः श्रीहेमचन्द्राचार्यस्मृतिशिक्षणनिधेरुपक्रमेण श्रीहेमचन्द्राचार्यचन्द्रकार्पणसमारोह आयोजित आसीत् ।। इतः पूर्वं डॉ. हरिवल्लभभायाणी, डॉ. दलसुख-मालवणिया, डॉ. मधुसूदन ढांकी, डॉ.सत्यरञ्जनबॅनर्जी, प्रा.जयन्त कोठारी, प्रा. र.ना. महेता - इत्यादिभ्यो दशभ्यो विद्वद्भयोऽयं चन्द्रकोऽपितोऽस्ति । तस्यामेव शृङ्गलायां गूजरभाषासाहित्यस्य त्रिभ्यो मूर्धन्यविद्वद्भयः प्रा. श्रीकनुभाई जाना - प्रा. श्रालाभशङ्कर पुरोहित - डॉ. हसुभाई याज्ञिकाख्येभ्यः साहित्यक्षेत्रे तेषां विशिष्टं प्रदानमुपलक्ष्य श्रीहेमचन्द्राचार्यचन्द्रकार्पणं कृतम् । अस्मिन् समारोहे विश्वविख्यातः शिल्पकलावित् पद्मभूषणो डॉ. मधुसूदन ढांकी, अमरेलीनगरीयः संस्कृतवैयाकरण: डॉ. वसन्त परीख:, डॉ. रघुवीर चौधरी, प्रा. शिरीष पञ्चालः, कविराजेन्द्रशुक्लः इत्यादयो मूर्धन्यसाहित्यकारा उपस्थिता आसन्, अवसरोचितमुद्बोधनं च कृतवन्तः । त्रिभिः प्राप्तचन्द्रकैर्विद्वद्भिरपि स्वीयप्रतिभावः सहर्ष प्रदर्शितः । १३४
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy