________________
महिला
(मधुमक्षिकापालक) भो ! भवदुद्यानस्यैका मक्षिका मां दष्टवती । शीघ्रं किमपि क्रियताम् । अवश्यं भगिनि ! कृपया सा मक्षिका मे दर्श्यताम् । अधुनैव तां दण्डयिष्यामि ।
पालकः
युवतिः युवकः
(नृत्यस्थाने (Ball Room)) नृत्यस्य धावनस्य च मध्ये को विशेष: ? नाऽहं जानामि । तदेव मया चिन्तितं, किमावामुपविशेव तावत् ?
युवतिः
माता
वत्स ! शालागमनस्य प्रथमदिनेऽद्य त्वया पर्याप्तं शिक्षितं वा ? नैव मातः ! मया श्वोऽपि गन्तव्यं तत्र ।
पुत्रः
कर्मकरः
स्वामिन् ! अहमापञ्चविंशतेर्वर्षेभ्यो भवतः कार्यं करोमि । तथाऽपि मया न कदाऽपि वेतनवृद्ध्यर्थं कथितम् । तत एव भवान् पञ्चविंशतिवर्षाणि कार्यं कर्तुं शक्तवान् खलु !
स्वामी
१३३