________________
| तीर्थङ्करपार्श्वनाथ-कथा
डॉ. आचार्यरामकिशोरमिश्रः
त्रयोविंशतीर्थङ्करः श्रीपार्श्वनाथः काशीनरेशस्य राज्ञोऽश्वसेनस्य पुत्र आसीत् । पित्रा श्रीअश्वसेनेन तस्मै षोडशवर्षीयाय स्वपत्राय श्रीपार्श्वनाथाय राज्यस्य शासनसत्ता समर्पिता । परं शासने तस्य मनो नाऽरमत। कतिपयैर्वषैरेव सांसारिकसुखेषु तस्य विरक्तिरुत्पन्ना । ततः स स्वपितरमेकदा जगाद - 'पितः! मया बहुकालं यावत्सांसारिकसुखसुविधानामुपभोगः कृतः, किन्तु सुखं प्रति तृष्णायाः क्षयो नाऽभवत् । यथा पृथिव्यामिन्धनोपयोगेनाऽग्निज्वालाशमनं न भवति, तथा सुखोपभोगेन तृष्णाशमनं न जायते, परमुभयत्र वृद्धिरेव भवति ।'
पिता श्रीअश्वसेनोऽकथयत - पत्र ! इन्धनोपयोगेन यथाऽग्निज्वाला वर्धते, तथैव सुखोपभोगेन तृष्णाऽपि वर्धते । एतद्राजसुखं कथ्यते । भवानस्ति राजा । सुत ! राजसुखोपभोगं कुरु । राजा तु राजसुखानि भुनक्ति । त्वमत्र चिन्तां कथं करोषि ? पुत्रः श्रीपार्श्वनाथ उत्तरमददात् - 'पितः ! राजसुखोपभोगसमये-यानि सुखानि रुचिकराणि प्रतीयन्ते, तानि सर्वाणि दुःखरूपाणि भवन्ति । अतो राजसुखेषु मे मनो न रमते । अस्मात्कारणाज्जीवनं सार्थकं कर्तुं तपस्यायै वनं गच्छामि ।'
पित्रा वनं गन्तुं निषेधितोऽपि पार्श्वनाथोऽग्रे विनम्रः सन्नवाच- 'पितः ! जीव इन्द्रियलोलुपतायाः सन्तुष्टये दुःखसागरे निमज्जति, सत्कर्माणि त्यक्त्वा दुःखकर्मसु प्रवृत्तो भवति । लिप्सालोभरागद्वेषचौर्यपरस्त्रीगमनादिपापकर्मसु तस्य तृष्णा वर्धत एव ।' अतस्तृष्णाशमनाय श्रीपार्श्वनाथो राजपदं त्यक्त्वा* वनं जगाम । स सामदपर्वते साधनारतो बभूव । ततस्तेन जनतायै सत्यसदाचाराऽहिंसापालनार्थमुपदेशो दत्तः । तेन जैनधर्मस्य त्रयोविंशतीर्थङ्कररूपेणाऽमरत्वमवाप्तम् ।।
२९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र.
* श्रीपार्श्वनाथेन त्रिंशद्वर्षवयसि गृहं त्यक्त्वा प्रव्रज्या गृहीता ।
१२७