SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ - अहो ! बहुप्रीणामि भवत्याम् अम्ब ! उक्तवती अनामिका । ततः स्वप्रियं बान्धवं मातुः आह्वानं ज्ञापितवती । अवनता चिरप्रतीक्षिता सन्ध्या । आनन्देन इतस्ततः भवति अनामिका । यदि अनुभवः मात्रा सह इतस्ततः किमपि वदिष्यति, तर्हि सर्वं समाप्तं भविष्यति । परन्तु सा तु जानाति अनुभवम् । स्वल्पं वदति सर्वदा सः । तम् अपि सर्वम् असूचयत् अनामिका । उत्तमच्छात्ररूपेण महाविद्यालये तस्य सुख्याति: अपि वर्तते । तदुपरि विश्वसिति महाविद्यालयस्य अध्यक्षः, पोषयति च उच्चाभिलाषम् । अस्मिन् वारे सर्वश्रेष्ठः स्नातकोऽपि भवेत् ! बहिः मोटरद्विचक्रिकायाः ध्वनिः श्रतः । अनामिका अधावत द्वारम् उदघाटयितम् । - मातृष्वसे ! नमस्कारः ! ... ... मम नाम अनुभवमहान्तिः । - उपविशतु, उपविशतु पितः ! मां सर्वम् उक्तवती अनामिका भवतः विषये । अनुभवः मुखम् अवनतवान् । तस्य मुखं लक्षितवती ममता । ... अरे, किं पश्यति सा ! एतत् तु तदेव मुखम्, सैव आकृतिः, तथैव नेत्रे, उन्नतः कपोलः ! अयं तु तस्य एव प्रतिरूपं प्रतिभाति । सपद्येव उत्थाय तम् आन्दोलितवती ममता । सहसा आसन्दात् उत्थितः अनुभवः । - मां किमपि वदति वा मातृष्वसे! यत् प्रष्टव्यम् अवश्यं पृच्छतु, अहं निश्चयेन सत्यं वदिष्यामि । मामपि उक्तवती अनामिका - कथं स्निह्यति भवती तस्याम् ! अतः भवत्याः मनःप्रातिकूल्येन आवां नाऽऽचरिष्याव: किमपि । - अस्तु, पुत्र ! किमुक्तवान् भवतः नाम ? ममता सहजा भवितुं चेष्टते स्म । - अनुभव, ... ... अनुभवमहान्तिः । - पिता कि करोति ? - पितुर्नाम महेशमहान्तिः । पूर्वं वयम् एकत्र अतिष्ठाम । पितुः स्थानान्तरणं जातं कोलकातां प्रति । अधुना कोलकातायां वसति पिता । अहमत्र छात्रावासे एकलः तिष्ठामि । सरलभावेन उदतरत् अनुभवः । सपद्येव हृदये मुद्गरप्रहारम् अन्वभवत् ममता । सा चीत्कृत्य संज्ञाशून्या जाता । गृहाभ्यन्तरात् चायचषकद्वयं धृत्वा प्रविशन्ती अनामिका मातुः अवस्थां दृष्ट्वा चीत्कृतवती । चायचषकद्वयं हस्तात् भ्रष्टं जातम् । बहिः आकाशे आसन्नप्रायाः वर्षाः । ताभिः सह प्रवाहिता प्रबलवेगेन वात्या । अनुमीयते स्म, क्रमशः अस्य वात्यसारस्य वेगः वर्धमानः अस्ति । १२६
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy