________________
- अम्ब ! कृपया भवती अस्य विवाहस्य प्रहसनं समापयतु ।
- किमर्थम्, एतत् तु आरम्भमात्रम् । इतोऽपि सुन्दरपुरुषाः आगमिष्यन्ति । भवती चेष्यति एकम् एव, ... भवत्याः चयनम् एव मम निश्चयः ।
- यदि भवत्याः कथा सत्यमेव, तर्हि अहम् एकं चितवती अम्ब ! तदर्थं किं भवती माम् अनुमंस्यते ? सहसा एवम् उत्तरं प्राप्स्यति इति ममता स्वप्ने अपि न चिन्तितवती । चिन्तितवतीअनामिकायाः बालस्वभावः इदानीम् अपि न गतः । साम्प्रतम् अपि उत्तमाधमविचारो न जातः तस्याः । इदानीम् अपि मम वस्त्राञ्चलं न त्यजति । परन्तु किं कथयति अद्य? ... ... कदापि एवंविधां कथां तु सा न श्रुतवती ।
- भवती किं वदति अनामिका, अहं किमपि बोद्धुं न शक्नोमि । भवादृशी कन्या पुनः अस्मिन् वयसि । नहि, नहि, कृपया एवं किमपि न अकरिष्यत्, येन अहम् उपहसिता अभविष्यम् ! कियदुःखं यन्त्रणां च सोढ्वा अहं भवतीं पालितवती, किं न जानाति भवती ?
- अहं भवत्याः मनसि कदापि दुःखं न दास्यामि । आवयोः बन्धुत्वम् एव वर्तते । वर्षद्वयात् परम् आवां विवाहबन्धनेन आबद्धौ भविष्यावः । प्रथमतः स्वीयवृत्तेः प्रोन्नतिं विधाय तदनु यत्किमपि ।
- अस्तु, अस्तु, विरमतु अधुना, वाचोयुक्तितः । भवती किं निर्मास्यते स्वीयां वृत्तिम् ? अद्य पिता नास्ति इति, अहम् अस्यां परिस्थितौ अस्मि । अन्ततो रुदितवती एव ममता । यथा कोऽपि वात्यासारः प्रवाहितो गृहे ।
- मयि विश्वसितु अम्ब ! भवत्याः विश्वासे अहं विषं न मिश्रयिष्यामि । अस्मिन् विषये इतोऽपि न वदिष्यामि । भवत्याः मनसि कष्टं दत्तवती, कृपया क्षाम्यतु माम् । इत्युक्त्वा अनामिका मातुः पदतले न्यपतत् ।
तस्यां रात्रौ निद्रां न प्राप्तवती ममता । आत्मानम् असहायां मनुते सा । सहसा, तस्याः अनुभवः जातः, सम्पूर्णे संसारे सा एकाकिनी वर्तते । अस्याम् अपि परिस्थितौ पार्श्वे स्थातुं कोऽपि न वर्तते । जीवनस्य चतुष्पथे सा पथभ्रष्टा जाता । केन मार्गेण निर्गमिष्यति सा ? कः समीचीनः कः वा असमीचीनः? तस्याः एका एव कन्या ! अत्र भावप्रवणतायाः किमपि मूल्यं नास्ति । परिस्थितिः सम्मुखीकर्तव्या खलु ! भवतु नाम काचित् कठोरा निष्पत्तिः । प्रथमतः चिन्तितवती, निरञ्जनं ज्ञापयितुम् । अनन्तरं चिन्तितवती, प्रथमतः स्वीयबोधो भवतु । प्रवाहः केन मार्गेण प्रवहति ? तदनु किमपि कर्तव्यं खलु !
परस्मिन् प्रातः ममता स्वीयनिष्पत्तिं श्रावितवती । अवदत् - अनामिके ! अद्य सायं तम् आह्वयतु अस्माकं गृहं, चायपानार्थम् । अहं तेन सह वार्तालापं करिष्यामि । यद्यहं द्रक्ष्यामि, तस्य योग्यता वर्तते भवत्याः हस्तं धारयितुम्, अहम् अवश्यं भवत्याः मनसि दुःखं न दास्यामि इति प्रतिशृणोमि । ततः भवतोः कृते तु मम जीवनम् । यदि परिणयोत्सवः समीचीनतया अभविष्यत्, तर्हि बहिःस्थसंसारस्य लोकनिन्दाम् अपि अहम् असहिष्यम् । मम जीवने उदितः वात्यासारः, प्रशाम्यतु अपि ।
१२५