________________
यन्त्रज्ञः । टाटाकोम्पान्यां नियुक्तः । आगामिनि वर्षे विदेशं गमिष्यति । अतः तस्य पितरौ निश्चितवन्तौ, ऐषमः विवाहं समाप्य नवदम्पती आगामिवर्षे विदेशं गमिष्यतः । सुन्दरः प्रस्तावः । यदि तस्याः कन्या तेषां मनोमता स्यात् ! अवश्यम् अनामिकायाः भावचित्रं दृष्ट्वा ते चितवन्तः, परन्तु भावचित्रात् सर्वं न ज्ञायते खलु । ताभ्यां चिता चेत्, पत्रः आगमिष्यति, कन्यादर्शनार्थम् । ततः एव अन्तिमनिर्णयः भविष्यति । ममता चिन्तयति, कन्या एका वर्तते चेत् प्रस्तावाः तु आगमिष्यन्ति । परन्तु सपद्येव कन्याविवाहकथाचिन्तनेन तस्याः मस्तकमेव चक्राकारेण भ्रमति ।
बहुदिनेभ्यः परं ममता स्वीयम् असज्जितं गृहं पुनः सज्जितवती । गृहे नूतनयवनिकाः योजिताः । अतिथिप्रकोष्ठस्य सोफासनानि अपि परिवर्त्तितानि । चायाधान्यां पुष्पाधानी पुष्पैः पूर्णा । भित्तौ योजितानि नूतनभित्तिचित्राणि । यदपि भवतु नाम, वरपिता पदस्थः अधिकारी, पुत्रोऽपि यन्त्रज्ञः । प्रथमतः गृहदर्शनेन एव रुचिबोधस्य परिचयः भवति । एका एव कन्या तस्याः । कदापि कस्यापि अभावस्य असौविध्यस्य वा सम्मुखीना न जाता । पितुः मातुश्च स्नेहप्राप्त्या अनामिका आत्मानं भाग्यवतीं मनुते ।
अस्य सुखायोजनस्य मध्ये ममता लक्षितवती, अनामिकायाः मनसि नास्ति सुखस्य स्पर्शः । केवलं अष्टचत्वारिंशद्होराः एव अवशिष्टाः । मध्ये रात्रिद्वयम् । तृतीयसन्ध्यायां ते आगन्ष्यिन्ति । कन्यया सुखेन भवितव्यम् आसीत् । परन्तु अनामिकायाः मनं तु कुत्रापि न लग्नम् । केवलं सा वदति, एवं त्वरा किमर्थम् अम्ब ! भवत्याः कन्या किं भवत्यै न रोचते ?
ममता उदतरत् - किं त्वया चिन्त्यते, एकदा एव सर्वं निश्चितं भविष्यति? भवती ते द्रक्ष्यन्ति । चेष्यन्ति । पुनः पुत्रेण सह आगमिष्यन्ति, तदा भवती तं द्रक्ष्यति । उभयोः मनोमतश्चेत् एव विवाहः भविष्यति । पुनश्च विवाहः भवति योगायोगस्य विषयः । अनेकत्र निश्चितः अपि विवाहः अन्तिमपर्याये न भवति । वेद्याम् उपविष्टः वरः प्रतिनिवर्त्तते । एतत् तु आरम्भमात्रम्, किमर्थं चिन्तिता भवति ? इतः अपि लोभनीयाः प्रस्तावाः आगमिष्यन्ति ।
ममता अनामिकायाः कथायाः गुरुत्वं न ज्ञातवती । साधारणतः कन्याः प्रथमतः नेति नेति उक्त्वा पुनः सुखेन गृहसंसारं सज्जीकुर्वन्ति । अनामिका तस्याः कन्या, तद्रक्तेन निर्मिता । तस्याः वचने स्थिता ।
रात्रौ अनामिका सम्यक् न भुक्तवती । पठनव्याजेन स्वप्रकोष्ठं गतवती । ममता अपि तद्दिने सम्यक् निद्रां न प्राप्तवती । परस्मिन् प्रातः विलम्बन उत्थितवती अनामिका । जाते अल्पाहारसमये आह्वयत् ममता।
- अरे, भवत्याः नेत्रे स्फुटिते इव लक्ष्येते । आरात्रि अपठत् वा ? - नहि, अम्ब ! रात्रौ कोऽपि कीट: नेत्रे पतितः । तदर्थं किञ्चिन्मदितवती नेत्रे । तदर्थं तथा लक्ष्यते । - कुत्र, आगत्य दर्शयतु मनाक् ... | ममता कन्यां स्वसमीपम् अनयत् । - भवती क्रन्दितवती वा न वा, सत्यं वदतु मातः ! - सत्यमेव मुखं गोपायित्वा... कामं रुदितवती अनामिका ममतावक्षसि ।
१२४