________________
प्रवचनम्
हृदयसन्तर्पकं वृत्तम् मुनिरकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये ॥ आनन्दमयोऽयं दिवसः । सुदूरं स्थितोऽप्यहं तत्रत्यानि आनन्दपूर्णानि स्पन्दनानि अनुभवाम्येव ।
नन्दनवनकल्पतरोः पञ्चविंशतितमी शाखाऽद्य प्ररोहं प्राप्ताऽस्ति । अथ विदुषां विद्यार्थिनां च कृते छायाप्रदोऽयं कल्पतरुर्जातोऽस्ति । प्रतिशाखं तस्य छायाऽभिवर्धत एव । एतच्च हृदयसन्तर्पकं वृत्तम् । अस्मिश्च शाखाविस्तरणकार्ये लेखका वाचकाश्च सर्वेऽपि तेऽत्र विशेषेण धन्यवादार्हाः ।
१३९