________________
कलिकालसर्वज्ञश्रीहेमचळाचार्यस्य प्रतिभा
प्रवचनम्
मुनिधर्मकीर्तिविजयः
क्लुप्तं व्याकरणं नवं विरचितं छन्दो नवं द्वयाश्रयालङ्कारौ प्रथितौ नवौ प्रकटितं श्रीयोगशास्त्रं नवम । तर्कः संजनितो नवो जिनवरादीनां चरित्रं नवं
बद्धं येन न केन केन विधिना मोहः कृतो दूरतः ॥ कलिकालसर्वज्ञस्य श्रीहेमचन्द्राचार्यस्य समकालीनेन श्रीसोमप्रभसूरिणा श्लोकेनतेन श्रीहेमचन्द्राचार्यगुरोः साहित्यस्य समीक्षा कृता । एष एक एव: श्लोकोऽस्य गुरोः प्रतिभां विद्वत्तां च प्रमाणीकरोति । साहित्यस्य सर्वेष्वपि क्षेत्रेषु गुरोरस्य अप्रतिहता गतिरासीत् । जगति व्याकरणस्य पण्डिता बहवो, न्यायस्याऽपि बहवः पण्डिताः एवमेकैकस्य विषयस्य पण्डिता बहवः उपलब्धा भवन्ति, किन्तु येषु विद्वत्सु व्याकरणन्याय-काव्या-लङ्कारादिकं सर्वमपि साहित्यं समाविष्टं स्यात् तादृशा विद्वांसः कियन्तोऽस्मिन् जगति ? भो ! अस्माकं परमं सौभाग्यमस्ति यद्, यस्य विदुषः साहित्यस्य सर्वेष्वपि क्षेत्रेषु समानोऽधिकारः तादृशो हेमचन्द्राचार्यगुरुः अस्माकं गूर्जरदेशे जातः । एतत् सौभाग्यं न केवलं जैनानामपि तु सर्वेषामपि गूर्जरजनानामस्ति । यद्येष गुरु'रर्जरदेशे जातो न स्यात् तर्हि -
- गूर्जरभाषायाः प्रादुर्भावः स्यान्नवेत्येव प्रश्न आसीत् । - गूर्जरदेशेऽद्य संस्कारस्य समृद्धिः वैभवश्च दृग्गोचरीभवतः, तयोः कल्पनाऽप्यशक्याऽऽसीत् ।
- अन्यराज्यजनानामपेक्षया गूर्जरजनानां चित्ते या करुणादृष्टिः, परोपकारवृत्तिः, सर्वधर्मसमभावदृष्टिः विद्यारुचिश्चेत्यादिकाः गुणाः दृश्यन्ते ये ते दृश्येरन् नवेत्येव प्रश्न आसीत् ।
- विश्वस्मिन् विश्वेऽनेकविधसाहित्यं रचितं विद्वद्भिस्तत्र गौरवपूर्वकं सादरं च गूर्जरराज्यस्य नामोच्यते तस्य महत्त्वपूर्ण श्रेयो हेमचन्द्राचार्यगुरोरेव । एनं गुरुं विना गूर्जरदेशे साहित्यस्यैतादृशो विकासोऽशक्य एवाऽऽसीत् । विश्वप्रसिद्धानां साहित्यकाराणां समक्षं गुरुमेनं विना सगौरवं येषां नामोल्लेखः क्रियेत तादृशाः विद्वांसः कियन्तो गूर्जरदेशे ? अङ्गलीभिः गणयितुं शक्या एव ।
एतादृश आसीद् अस्माकं गुरुः श्रीहेमचन्द्राचार्यः ।
अस्य गुरोः कविप्रतिभा सुन्दरा मधुरा चाऽऽसीत् तथैव निर्दुष्टा गभीरा चाऽप्यासीत् । द्वौ प्रसङ्गौ कथयामि ।
एकदा गूर्जरनरेश्वरः सिद्धराजजयसिंहो गजमारुह्य नगरस्य मुख्यमार्गत आगच्छन् आसीत् । सर्वेऽपि नगरजना राजानं द्रष्टुमितस्ततो अटाट्यन्ते स्म । ततः कार्यार्थं बहिनिर्गतवान् हेमचन्द्राचार्यगुरुः एकस्मिन् कोणे स्थितवान् आसीत् । गजारूढेन राज्ञा दृष्ट एव गुरुः । गुरोस्तपसा ज्ञानेन च देदीप्यमानं
१४१