SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ललाटं तथा निर्मलचारित्रपालनेन पवित्रीभूतां देहयष्टिं निरीक्ष्य राजा चकितः स्तब्धश्च जातः । क्षणं गजं निरुध्य तं गुरुमेव मुहर्मुहुः पश्यति स्म । राज्ञः मानसिकी स्थिति ज्ञात्वाऽवसरानुरूपं गुरुणा श्लोक एक उक्तः । गुरोः काव्यप्रतिभा कीदृशी आसीत् तद् एतेन श्लोकेन ज्ञायते - कारय प्रसरं सिद्ध ! हस्तिराजमशङ्कितम् । त्रस्यन्तु दिग्गजाः किं तैर्भूस्त्वयैवोद्धता यतः ॥ एतन्निशम्य राजाऽतीव सन्तुष्टो जातः । गजादवतीर्य गुरोः चरणयोः पतितवान् । गुरोः सामर्थ्य प्रतिभां विद्वत्तां च निरीक्ष्य मन्त्रमुग्धो राजा श्रीहेमचन्द्राचार्यमयो जातः । तत्क्षणमेव स उक्तवान् - "गुरुदेव ! भवता प्रतिदिनं मे राजसभायामागन्तव्यम्" इति । भो ! साहित्यरसिको राजा विद्वज्जनं स्वकीयराजसभायाम् आगन्तुमामन्त्रयेत् तत्तु स्वाभाविकमस्ति, किन्तु तत्राऽऽवश्यकोऽस्ति विशेषो लेशो वा परिचयः । अत्र तु सर्वमपि विपरीतमेव आसीत् । यतोऽद्यावधि न गुरुरेष दृष्टो राज्ञा, न च कोऽपि परिचय आसीत् । तथाऽपि केवलं द्वात्रिंशदक्षराणि श्रुत्वैव राजा गुरुवरमेनं राजसभायामागमनस्य कृते आमन्त्रयेत्, तत्र एकमेव कारणमस्ति - गुरोः काव्यप्रतिभाः । एतादृशोऽन्योऽपि प्रसङ्गोऽस्ति । तदा सिद्धराजो मालवदेशं विजित्य पत्तननगरे आगच्छन् आसीत् । सर्वैः पुरजनैरुचितरीत्या स्वागतादिकं कृतम् । विद्वद्भिः स्वस्वबुद्धिप्रागल्भ्येन राज्ञः प्रशस्तिः कृता । अन्ते श्रीहेमचन्द्राचार्येणाऽपि राज्ञः विजयप्रशस्तिः कृता । गुरुः उक्तवान् - भूमि कामगवि ! स्वगोमयरसैरासिञ्च रत्नाकरा ! मुक्तास्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भीभव । धृत्वा कल्पतरोर्दलानि सरलैदिग्वारणास्तोरणा न्याधत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः ।। काव्येऽस्मिन् गूर्जरदेशस्य भव्यतायाः ध्वनिः श्रूयते स्म । अद्यावधि बहुभिः पण्डितैः सिद्धराजस्य प्रशस्तिः कृताऽऽसीत् । तां निशम्य या प्रसन्नता जाता ततोऽप्यधिका प्रसन्नता तस्यैतेन श्लोकेन जाता, तत्तु राज्ञो मुखे दृश्यते स्म एव । ततो गुरोर्गौरवान्वितामकल्पनीयकल्पनायुतां च वाचं श्रुत्वा राजा पुलकितो जातः। मनसि निर्णीतवान् राजा - "एतादृशो विद्वान् न कोऽप्यस्ति मे सभायाम्" । ततो यदा नूतनव्याकरणस्य रचनाया अवसर आगतः तदा एष गुरुः श्रीहेमचन्द्राचार्य एव प्राथितो राज्ञा । पश्यन्तु, अस्य गुरोः काव्यप्रतिभायाः फलम् । 'कारय प्रसरं सिद्ध !' इति श्लोकं श्रुत्वा राज्ञा राजसभायामागन्तुमामन्त्रणं दत्तम् । एवं 'भूमि कामगवि' इति श्लोकं निशम्य नूतनव्याकरणस्य रचनायाः प्रसङ्गे एनं गुरुमेव प्राथितवान् राजा। एतादृशी काव्यप्रतिभा गुरोरस्य आसीत् । १४२
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy