________________
नन्दनवनकल्पतरो: उद्भवो विकासयात्रा च
प्रवचनम्
मुनिकल्याणकीर्तिविजयः
शासनसम्राजामिह, समुदाये मेरुपर्वतौपम्ये ।
कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ श्लोकोऽयं नन्दनवनकल्पतरोः प्रत्येकं शाखाया मुखपृष्ठे मुद्रितोऽस्ति । किन्तु प्रश्नोऽयमुत्तिष्ठते यत् - के शासनसम्राजः ? कश्च तेषां समुदायः ? किं च तत्र नन्दनवनम् ? - इति । तदर्थं प्रथमं परिचयं दत्त्वा ततः नन्दनवनकल्पतरुविषयकं कथयिष्यामि ।
अस्माकं परमगुरवः श्रीविजयनेमिसूरीश्वराः स्वप्रतिभाबलेन ज्ञानबलेनाऽनुभवबलेन च जैनानां धर्मशासनस्य सम्राज इव सम्राज आसन्, अतस्ते समग्रे जैनसमाजे शासनसम्राडित्याख्यया प्रसिद्धा जाताः । ते हि स्वयमेव शास्त्राणां पारगामिण आसन् । ते सर्वदर्शनानि व्याकरण-साहित्य-काव्य-च्छन्दोऽलङ्कारादिशास्त्राणि सिद्धान्तागमादिधर्मशास्त्राणि च तलस्पर्शितयाऽधीतवन्तः । शास्त्रपरिकर्मितबुद्ध्या च तैः तर्क-व्याकरण-सिद्धान्तादिसम्बद्धा बहवो ग्रन्था अपि विरचिताः ।।
अथ च तेषां शतशः शिष्य-प्रशिष्या आसन् । तेष्वप्यष्टौ शिष्या दिग्गजा इव प्रतिभान्विताः सन्तो विविधासु विद्याशाखासु पारगामिण आसन् । तत्राऽपि च द्वौ मुख्यशिष्यौ तेषां प्रतिच्छायेवाऽऽस्तां याभ्यां तेषां समग्रं ज्ञानमनुभवश्चाऽऽकण्ठमात्मसात् कृत आसीत् । तौ चाऽऽस्तां विजयोदयसूरिविजयनन्दनसूरिश्च ।
१४३