SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ अस्माकं पूज्यगुरुभगवद्भिस्तयोर्द्वयोरपि कृपामृतं प्राप्तमासीत् । तत्राऽपि विशेषतो विजयनन्दनसूरीणामन्तेवासितया दशवर्षाणि स्थित्वा बहु ज्ञानमनुभवश्च प्राप्तौ । ते हि नन्दनसूरीश्वरा कलिकालसर्वज्ञश्रीहेमचन्द्राचार्याणां जन्मभूमिर्यद् धन्धुकानगरं तत्समीपवर्तितगडीग्रामे द्वात्रिंशदधिके द्विसहस्रतमे वैक्रमाब्दे निजजीवन समापितवन्तः । तत्र स्थाने पूज्यगुरुवर्याणां सदुपदेशेन श्रावकजनैर्नन्दनवनं नाम तीर्थमुपस्थापितम् । तस्य तीर्थस्य प्रतिष्ठा पञ्चपञ्चाशदधिके द्विसहस्रतमे वैक्रमाब्दे उपकल्पिताऽऽसीत् । तदवसरमुपलक्ष्याऽस्माकं पज्यगुरुभगवन्तो विजयशीलचन्द्रसरिवरा अस्मान त्रीनपि प्रेरितवन्तो – 'यदेते श्रावका धनादिव्ययं कृत्वा जिनभक्तिं गुरुभक्तिं च करिष्यन्ति । अस्माकं तु धनव्ययेऽधिकारो नास्ति । किञ्चित् तु कर्तव्यमेवाऽस्माभिर्गुरुभक्तिकृते । किञ्च, जैनसमाजेऽद्य शतशः सामयिकानि प्रकाश्यन्ते विविधभाषासु । किन्तु तत्रैकमपि संस्कृतसामयिकं नास्ति । यूयं सर्वेऽपि व्याकरण-साहित्यादि अधीतवन्तः । अतो मदिच्छाऽस्ति यद्-यूयं संस्कृतभाषया विविधान् साहित्यप्रकारान् लिखन्तु । तत्सामग्र्या वयं संस्कृतसामयिकमेकं प्रकाशयिष्यामो गुरुभगवतां स्मृतौ' । वयं हि तदात्वे संस्कृतसाहित्यालेखने सर्वथाऽनभिज्ञा आस्म । किन्तुगुरुभगवतामूष्मपूर्णमार्गदर्शनेनाऽस्माभिः स्तुति-चरित्र-चिन्तन-कथा-हास्यकणिकादि किञ्चिल्लिखितम् । गुरुभगवद्भिः स्वयमपि मङ्गलार्थं चतुर्विंशतेजिनानां मधुर-सरसानि स्तवनानि विरचितानि । एतत् सर्वमपि संस्कृतसामयिकस्य मूलद्रव्य(Raw Material)मासीत् । तदुपयुज्याऽस्माभिनन्दनवनतीर्थस्य प्रतिष्ठावसरे गुरुभगवतां तीर्थस्य च नाम्ना पञ्चपञ्चाशदधिके वैक्रमे द्विसहस्रतमे शताब्दे उत्तरायणे नन्दनवनकल्पतरु-इत्यभिधसंस्कृतसामयिकस्य प्रथमा शाखा प्रकाशिता । यद्यपीयमस्माकं चेष्टा चलितुं शिक्षतो बालस्येवाऽऽसीत् । किन्तु गुरुभगवता पूर्णवात्सल्येन वयं सम्भालिताः, अस्माकं क्षतयश्च सम्मार्जिताः प्रोत्साहिताश्च वयमग्रेसर्तुम् । अस्माभिरेषा प्रथमा शाखा विद्वज्जनेभ्यः प्रतिभावार्थमभिप्रायार्थं च प्रेषिता । तैरपि च सरलतया सहृदयतया चाऽस्माकं बालचेष्टामेकतः कृत्वा स्वीकृता भृशं प्रोत्साहिताश्च वयम् । अस्माकमुत्साहो वृद्धिङ्गतः । शनैः शनैरस्माभिरस्य द्वितीया शाखाऽपि दक्षिणायने प्रकाशिता । यतः - श्रीर्मङ्गलात् प्रभवति, प्रागल्भ्याच्च प्रवर्धते । दाक्ष्यात् तु कुरुते मूलं, संयमात् प्रतितिष्ठति ।। ततश्चाऽस्माकं सहकारार्थं बहवो मुनिभगवन्तो विद्वज्जनाश्च समागताः । तेषु मुख्या आसन् आचार्यविजयहेमचन्द्रसूरीश्वराः, उपाध्यायश्रीभुवनचन्द्रमहाराजः, मुनिश्रीधुरन्धरविजयमहाराजः, विद्वत्सु च डॉ. श्रीअभिराजराजेन्द्रमिश्रमहोदयः, श्रीवासुदेवपाठकमहोदयः, देवर्षिकलानाथशास्त्रिमहोदयः-इत्याद्या औत्तराहा विद्वांसः; एस्. जगन्नाथमहोदयः, अरैयश्रीरामशर्ममहोदयः - इत्याद्याश्च दाक्षिणात्या विद्वांसः । एतैहि यथासमयमत्यन्तं निरपेक्षतया, केवलं भाषा-साहित्यप्रीत्या वाग्देवतायाश्चाऽर्चारूपेणैव १४४
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy