SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ स्वीयमुत्तमोत्तमं साहित्यं सम्प्रेष्याऽस्माकं सामयिकं समृद्धीकृतमुत्साहश्च वर्धितः । सुजनं व्यजनं मन्ये, चारुवंशसमुद्भवम् । आत्मानं च परिभ्राम्य, परतापनिवारणम् ॥ एतेषां गुरुजनानामाशिषा विद्वज्जनानां च सहकारेणैव वयं यथाक्रमं शाखाः प्रकाश्याऽद्येमं प्रगतिस्तम्भं प्राप्ता: । अस्माभिः कदाऽपि चिन्तितं नाऽऽसीत् यद् वयं पञ्चविंशीं शाखामपि प्राप्स्यामः । अद्य तु चिन्तयामो यदितोऽपि बहु दूरं गन्तव्यमस्ति । एकेन चिन्तकेनोक्तं यत् - जीवनं हि शिक्षकात् सर्वथा भिन्नमस्ति । शिक्षकः किल प्रथमं पाठयति, ततः परीक्षते । एतद्वैपरीत्येन जीवनं हि प्रथमेम परीक्षते, ततश्च पाठयति । जीवनेन नन्दनवनकल्पतरुमिषतो वयं बहु पाठिताः । तथैव बहूनां विदुषां सज्जनानां निर्मलं निर्व्याजं च स्नेहमपि प्राप्ताः । मा भूत् सज्जनयोगो, यदि योगो मा पुनः स्नेहः । स्नेहो यदि विरहो मा, यदि विरहो जीविताशा का ? ॥ अतो भगवन्तं प्रार्थयामि सर्वदा सज्जनानामेतेषां स्नेहो वर्षेदस्मासु । - अद्यावधि नन्दनवनकल्पतरोश्चत्वारो विशेषाङ्काः प्रकाशिताः । तत्र द्वितीया शाखा शासनसम्राजां स्वर्गारोहणार्धशताब्दीं निमित्तीकृत्य, विंशी एकविंशी च शाखा तेषामेवाऽऽचार्यपदारोहणशताब्दी निमित्तीकृत्य, एषा च पञ्चविंशी शाखा विशेषतया प्रकाशिता । तथैवाऽद्यावधि नन्दनवनकल्पतरौ प्रकाशितेन साहित्येन आभाणकजगन्नाथः, हास्यमेव जयते, पञ्चसूत्रकम्, आलोचनाशतकं, जिनस्तवनानीत्यादयो ग्रन्थाः प्रकाशिताः सन्ति । नन्दनवनकल्पतरुप्रकाशनरूपेण च सागरविहङ्गमः, मृगमृगेन्द्रान्योक्तिशतकम् इत्याद्या ग्रन्थाः प्रकाशिताः सन्ति । किञ्च, अद्यावधि नन्दनवनकल्पतरौ शताधिकाः कथाः, त्रिंशदधिका गलज्जलिकाः, बहवः शतक - काव्य-गीत-स्तवन- स्तुति - काव्यानुवाद - चिन्तन- पत्र - अनुवाद - नाटक - ग्रन्थपरिचय-ग्रन्थसमीक्षादयो लेखाः शतशो हास्यकणिकाश्च प्रकाशिताः सन्ति । प्राकृतभाषायाऽपि च प्रभूतं साहित्यं प्रकाशितमस्ति । - प्रान्ते च हृदयगतं किञ्चित् कथयित्वा विरमामि । पूज्यगुरु भगवतामियं हार्दिकीच्छाऽस्ति यद्नन्दनवनकल्पतरुमाध्यमेन वयं त्रयोऽपि नित्यनूतनं साहित्यं सृजन्तः सर्जनक्षेत्रेऽग्रगण्या भवेमः । किन्तु व्यक्तिगतरूपेणाऽहं स्वीकरोमि यत् - प्रमादेन शक्त्यल्पत्वेन चाऽहं तेषामिच्छां पूरयितुं समर्थो न भवामि । इयं मे क्षतिरस्ति । एतावताऽपि ते मयि सर्वदा निर्व्याजस्नेहं कृपामृतं वर्षन्ति इत्येतन्मे सौभाग्यमस्ति । सौभाग्यमिदं मे सदाऽपि जागृयात् - इति भगवन्तं प्रार्थयित्वा विरमामि । O १४५
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy