SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अध्वन्यजन आजानुसंलग्ननवकर्दमः । आमुक्तमोचक इव प्रचचाल शनैः शनैः ॥१।१०९६।। वृन्दारकाणां हस्तेषु हस्तेभ्यः सञ्चरिष्णवः । बभ्राजिरे ते कलशाः श्रीमतां बालका इव ॥१।१५३१।। त्राभ्यां सा पदाभ्यां पदे पदे । विकस्वराणि पद्मानि रोपयन्तीव भुव्यपि ॥१।२।७५।। - इत्यादयः ।। श्रीहेमचन्द्राचार्या यथाऽसाधारणपाण्डित्यालङ्कृताः शास्त्र पारगामिण आसन् तथैव सामान्यजनताव्यवहारैर्लोकसाहित्येनाऽपि च पूर्णतया परिचिता आसन । त्रिषष्टिशलाकापुरुषचरितमहाकाव्ये तैरेषा क्षमता पूर्णतयोपयुक्ताऽस्ति । एतस्याः श्रेष्ठमुदाहरणं, विवाहप्रसङ्गे वरं वधूमनुवरं वोद्दिश्य स्त्रीभिर्यानि कौतुकधवलगीतानि गीयन्ते तान्यपि तैरत्र महाकाव्ये यथाप्रसङ्गं निबद्धानि सन्ति । तेषामन्यतमदत्र प्रस्तुतमस्ति - वधूट्योः पारिपाश्विक्यश्चतुरा नर्मकर्मणि । एवं कौतुकधवलान् गातुमारेभिरे स्त्रियः ॥ (१।२।८५४ त:-) ज्वरीवाऽब्धि शोषयितं मोदकान परिखादितम । श्रद्धालुरनुवरको मनसा केन नन्वसौ ? ॥१॥ मण्डकेभ्योऽखण्डदृष्टिः कान्दुकस्येव कुक्कुरः । स्पृहयालुरनुवरो मनसा केन नन्वसौ ? ॥२॥ आजन्मादृष्टपूर्वी किं वटकान् रोरबालवत् । श्रद्धत्तेऽत्तुमनुवरो मनसा केन नन्वसौ ? ॥३॥ तोयानां चातक इव धनानामिव याचकः । पूगानां श्राद्धोऽनुवरो मनसा केन नन्वसौ ? ॥४॥ ताम्बूलवल्लीपत्राणां तृणानामिव तर्णकः । श्रद्धालुरद्याऽनुवरो मनसा केन नन्वसौ ? ॥५॥ हैयङ्गवीनपिण्डस्य बिडाल इव लम्पटः । श्राद्धश्चूर्णस्याऽनुवरो मनसा केन नन्वसौ ?।।६।। विलेपनस्य केदारकर्दमस्येव कासरः । श्रद्धां दधात्यनुवरो मनसा केन नन्वसौ ? ||७|| निर्माल्यानामिवोन्मत्तो माल्यानां लोललोचनः । श्रद्धानुबन्ध्यनुवरो मनसा केन नन्वसौ ? |८||
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy