________________
कुण्ठाऽपि यदि सोत्कण्ठा, त्वद्गुणग्रहणं प्रति । ममैषा भारती तर्हि, स्वस्त्येतस्यै किमन्यथा ? ॥१९॥ तव प्रेष्योऽस्मि दासोऽस्मि, सेवकोऽस्म्यस्मि किङ्करः । ओमिति प्रतिपद्यस्व, नाथ ! नाऽतः परं ब्रुवे ॥२०।। (इत्यादयः)
(भावना)
वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् । कदाऽऽघ्रास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः ? ॥१॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । मोक्षे भवे भविष्यामि निविशेषमतिः कदा ? ॥२।। (योगशास्त्रे प्रकाशः ३)
(भगवदाश्रयः) न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु त्वामेव वीर ! प्रभुमाश्रिताः स्मः ।।
(अयोगव्यवच्छेदद्वात्रिंशिकायाम्) (उपमोत्प्रेक्षादयोऽलङ्काराः)
द्वयाश्रयमहाकाव्ये न जानू अरुजल्लङ्कां भ्रमतो यस्य मारुतेः । अहो आऽन्तं जिगमिषो रुजेत् तस्याऽपि जान्विह* ||१/३२॥ (* अणहिल्लपुरपत्तने) जङ्गन्म इत्युक्तिपरैः सपर्णध्वद्यष्टिभी रश्मिधृतानडुद्भिः । ग्राम्यैरविद्वद्भिरुदीक्ष्यतेऽसौ *यूखास्रदिन्दुर्दधिपिण्डबुद्ध्या ॥२/४१) (* द्यौरेव उखा-स्थाली, तत: स्रंसतेऽधः पततीति द्यूखास्रत्) - इत्यादयः ॥
त्रिषष्टिशलाकापुरुषचरितमहाकाव्ये अर्थस्तस्य महार्थस्य पर्यपूर्यन्त सेवकाः । महासरोवरस्येव स्यन्दैरभ्यर्णभूमयः ॥१।१।४३।। अत्राऽन्तरे च केनाऽपि सार्थवाहस्य ढौकितम् । पक्वचूताञ्चितं स्थालं भ्रष्टसन्ध्याभ्रसन्निभम् ॥१।१।५८।। महाकाया महास्कन्धा महिषास्तोयवाहिनः । महीं प्राप्ता इवाऽम्भोदा जनानां चिच्छिदुस्तृषम् ॥१।१७०।।