SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रभुश्री-हेमचन्द्रसूरिपट्टे श्रीराजगुरु-श्रीहरिप्रभसूरि....'' ___ उपर्युल्लिखितलेखद्वयाद् ज्ञायमानानि तथ्यानि त्वेतानि१. हेमाचार्या वसतिवासिनः-संविग्ना आचार्या आसन्, न तु चैत्यवासिनः । २. हेमाचार्याणां ख्याती राजगुरुत्वेनाऽऽसीत् । तेषां शिष्या अपि राजगुरुत्वेनैव परिचीयन्ते स्म । धातुविग्रहलेखात्तु हेमाचार्याणां शिष्यसन्तती राजगच्छत्वेनैव प्रसिद्धाऽभूदिति ज्ञायते । संवत् १२९८वर्षे तेजःपालमन्त्रिणः समये हेमाचार्याणां पट्टपरम्परायां मेरुप्रभसूरयः, संवत् १४९६वर्षे च हरिप्रभसूरयो विद्यमाना आसन् । अनयोः प्रथम आचार्यो 'हेमचन्द्रसूरिसन्ताने' इत्येवमुल्लिखितोऽस्ति, न तु प्रशिष्यत्वेन; द्वितीयश्च 'हेमचन्द्रसूरिपट्टे' इति । सारस्त्वेष एवाऽत्र यद् हेमाचार्याणामनन्तरं सार्धत्रिशततोऽप्यधिकवर्षाणि यावत् पञ्चदशशतकस्याऽन्तं यावत् तेषां शिष्यसन्ततिवर्तते स्म ॥ ॥१॥ ॥२॥ ॥३॥ ॥ श्रीमहादेव-द्वात्रिंशिका ॥ प्रशान्तं दर्शनं यस्य, सर्वभूताऽभयप्रदम् । मङ्गल्यं च प्रशस्तं च, शिवस्तेन विभाव्यते महत्त्वादीश्वरत्वाच्च, यो महेश्वरतां गतः । राग-द्वेषविनिर्मुक्तं, वन्देऽहं तं महेश्वरम् महाज्ञानं भवेद् यस्य, लोकालोकप्रकाशकम् । महादानं महाध्यानं, महादेवः स उच्यते महान्तस्तस्करा ये तु, तिष्ठन्तः स्वशरीरके । निर्जिता येन देवेन, महादेवः स उच्यते । राग-द्वेषौ महामल्लौ, दुर्जयौ येन निर्जितौ । महादेवं तु तं मन्ये, शेषा वै नामधारकाः शब्दमात्रो महादेवो, लौकिकानां मते मतः । शब्दतो गुणतश्चैव, मूर्तितो जिनशासने शक्तितो व्यक्तितश्चैव, विधानं लक्षणं तथा । मोहजालं हतं येन, महादेवः स उच्यते ||४|| ||५|| ॥६॥ ||७|| ३५
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy