SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीहेमचळाचार्याणां गुणैः प्रभावितै: समकालीनैः पाश्चात्यकालीनैश्च सर्वसाम्प्रदायिकैर्विवद्भिः कृता प्रशस्तिः मुनिकल्याणकीर्तिविजयः जैनागमानां सिद्धान्तग्रन्थानां च समर्था वृत्तिकृतः आचार्यमलयगिरयो हेमचन्द्राचार्याणां समकालीनाः सहवर्तिनश्चाऽप्यासन् । ते स्वयमेव व्याकरणादिस्वतन्त्रग्रन्थानां टीकाग्रन्थानां च रचयितारः सन्तोऽपि हेमचन्द्राचार्यान् स्वटीकाग्रन्थेषु सादरं सबहुमानं च सन्दर्भयन्ति, यथा – तथा चाऽऽहुः स्तुतिषु गुरवः (आवश्यकसूत्रवृत्तौ) ___ तथा तेषां समकालीना एव श्रीसोमप्रभसूरयस्तान् स्तुवन्ति – किं स्तुमः शब्दपाथाधेहेमचन्द्रयतेर्मतिम् । एकेनाऽपि हि येनेदक कृतं शब्दानशासनम् ॥१॥ स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवजितोऽपि, यः क्षोणिभर्तुळधित प्रबोधम् ॥२॥ (कुमारपालप्रतिबोधग्रन्थे) क्लृप्तं व्याकरणं नवं विरचितं छन्दो नवं व्याश्रयालङ्कारौ प्रथितौ नवौ प्रकटितं श्रीयोगशास्त्रं नवम् । तर्कः सञ्जनितो नवो जिनवरादीनां चरित्रं नवं बद्धं येन न केन केन विधिना मोहः कृतो दूरतः । (शतार्थकाव्यटीकायाम्) ३. तेषां शिष्यौ श्रीरामचन्द्रसूरि-गुणचन्द्रसूरी कथयत: - शब्द-प्रमाण-साहित्य-च्छन्दोलक्ष्मविधायिनाम् । श्रीहेमचन्द्रसूरिपादानां प्रसादाय नमो नमः ॥ (नाट्यदर्पणे) ४. गुरुगूर्जरराजस्य चातुर्विद्यैकसृष्टिकृत् ।। त्रिषष्टिनरसद्वृत्त-कविर्वाचां न गोचरः ॥ (मुनिरत्नसूरयोऽममचरित्रे) ५. सन्त्यन्ये कवितावितानरसिकास्ते भूरयः सूरयः मापस्तु प्रतिबोध्यते यदि परं श्रीहेमसूरेगिरा । उन्मीलन्ति महामहांस्यपि परे-लक्षाणि ऋक्षाणि वै नो राकाशशिना विना बत भवत्युज्जागरः सागरः ॥ (उपा.जिनमण्डनगणी कुमारपालप्रबन्धे) ९७
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy