________________
संवत्सरोऽयं कदा प्रवर्तित इति न स्पष्टं ज्ञायते । सामान्यतो राज्ञां राज्याभिषेकसमये मरणकाले वा तन्नाम्ना संवत्सरः प्रवर्तते । ऐतिह्यं दर्शयति यत् कुमारपालस्य मरणकाले संवत्प्रवर्तनस्य सम्भाव्यतैव नाऽऽसीदिति तस्य राज्याभिषेकप्रसङ्गे एव संवत्सरोऽयं प्रवर्तित इत्यनुमीयते । परं तन्न युक्तम् । यतो राज्यप्राप्तेरनन्तरं वर्षदशकं कुमारपालेन सामन्तैः शत्रुभिश्च साकं युद्धे एव व्यतीतम् । अस्मिन् वर्षदशके तेन स्वस्थानस्थिरीकरणमतिरिच्य महत्त्वयुतं कार्यं कर्तुं नैव शक्तम् । एवं च स्वराजपदमेव यदा न निश्चलं तदा कुतः संवत्सरप्रवर्तनस्याऽवकाशलेशोऽपि? यावल्लोकोपकारकाणि कार्याण्येव न विहितानि, लोकहृदये स्थानमेव नाऽवाप्तं, तावत्संवत्सरप्रवर्त्तनं हास्यास्पदमेव न भवेत् ? कुमारपालसदृशो धीरपुरुषो न कदाऽपि तादृशमविवेकिजनोचितं कर्म कुर्यात् । अन्यच्च, संवन्नाम्नि तेन ययोरपि नाम्नी संयोजिते, तयोरेकस्य हेमाचार्यस्य प्रगाढः सम्पर्को राज्याभिषेकतः प्रभूतकालानन्तरं जातः, अपरस्य सिद्धराजस्य कृते तन्मनसि तदा राज्याभिषेककाले तीव्रा विषमभावनैव प्रवर्त्तमाना स्यादिति च यदि पश्येम, तॉपि नूनं ज्ञायेत यद् राज्यप्राप्तिवर्षे तु सिद्धहेमकुमारसंवत्सरस्य प्रवर्तनं नितान्तं दुःशकमेव ।।
तर्हि कदाऽयं संवत्सरः प्रवर्तित इति परामश्यमाने वैक्रमीये १२१६तमवर्षे घटनेयं घटिता स्यादिति भासते । तथाहि- कुमारपालप्रबोधप्रबन्धे (सिंघीग्रन्थमालायां प्रकाशिते कुमारपालचरितसङ्ग्रहेऽन्तर्गते) विक्रमसंवत् १२१६वर्षे मृगशीर्षशुक्लद्वितीयादिने कुमारपालस्याऽहिंसाकुमार्याः सार्धं विवाहस्याऽद्भुतं रूपकं वणितमस्ति (पृ. ९३) । रूपकतो ज्ञायमानं तथ्यं त्वेतत् - १२१६वर्षपर्यन्तं कुमारपालेनाऽमारिप्रवर्तनस्य स्वकीये ध्येये सर्वोच्चं लक्ष्यं साधितमासीत् । इयं लक्ष्यसिद्धिरेवाऽहिंसायाः साकं विवाहः सम्भाव्यते । आज्ञावतिष्वष्टादशमण्डलेषु वर्षचतुर्दशकं यावत् हिंसाया वारणं कुमारपालेन विहितमित्यपि तत्र समुपलभ्यते (पृ. १११) । कुमारपालस्य स्वर्गारोहणं वैक्रमीय १२३०वर्षे जातमिति वैक्रमीय १२१६वर्षत एवेयं कालगणनाऽऽरभ्यते इति निश्चितम् । अमारिपालनादृते विधवानां धनस्य राज्येन ग्रहणस्य प्रतिबन्धः, अष्टादशसु देशेषु व्यसनमुक्तिः, प्रजाया अनृणीकरणं, हिंसाधारितमेव येषां जीवनं तेषां हिंसानिरोधेऽपि सुस्थित्यर्थं वर्षत्रयं यावद्राज्येन पोषणमित्यादीन्यनेकानि यशस्वीनि लोकोपकारीणि च कार्याणि तावत्पर्यन्तं तेन सम्पादितान्यासन्नित्यपि तत्तद्ग्रन्थेभ्यो ज्ञायते । अतो वैक्रमीय १२१६वर्षं यावत् कुमारपालेन स्वनिर्धारितलक्ष्याणां सिद्धिः सम्पादिता स्यात्, तत्स्मृत्यर्थं च संवत्सरः प्रवर्तितः स्यादिति कल्पना सर्वथा युक्ता भाति ।
उपरितनी कल्पना यद्यवितथा तद्यभिधानचिन्तामणिग्रन्थोऽपि यथा विद्वांसो मन्वते तथा विक्रमसंवत् १२०६तः १२०९स्य मध्यभागे न, अपितु १२१६वर्षतः पश्चान्निर्मितः स्यादिति मन्तव्यम् । त्रिषष्टिशलाकापुरुषचरित्रे प्रसङ्गतो हेमाचार्यैः स्वेन निर्मितानां ग्रन्थानां याऽऽवली प्रदर्शिता, तस्यामप्यभिधानचिन्तामणिग्रन्थस्य नाम बहुपृष्ठभागवर्तीत्यपि ज्ञेयम् ।
संवत्प्रवर्तनस्य वर्षो यः कोऽपि स्यात्, तात्पर्यं त्वेतद् यत् कुमारपालेनाऽपि स्वनाम्ना हेमचन्द्राचार्याणां नाम्नः संयोजने आग्रहः सेवितस्तथाकृत्वा गौरवमनुभूतं च । हेमाचार्यैस्तादृशां प्रतापिनामपि सम्राजां
२९