________________
गुर्जरशासितेषु प्रदेशेषु, तदा कुमारपालस्य सम्पूर्णतोऽहिंसाया व्यसनमुक्तेश्च सदाऽनुल्लङ्घनीयो विधि: प्रवर्तमानोऽभवदेव ; परं कुमारपालस्य सामन्तानां राज्येष्वहिंसायाः सम्पूर्णतः पालनं नाऽऽसीदिति सम्भाव्यते। सामन्तानां राज्येष्वहिंसाया अधिकाधिकं पालनं कारयितुं स सन्नद्ध आसीत्, राजस्थाने च वैक्रमीयं १२०९संवत्सरं यावत् पक्षे दिनत्रयमहिंसापालने स साफल्यं प्राप्तवानासीदित्येवाऽत्र तात्पर्यम् ।
ध्येयं त्वेतदेव यत् कुमारपालेन तत्सामन्तैर्वा सम्पूर्णतोऽल्पतो वा यत्किञ्चिदप्यहिंसायाः पालनप्रवर्तनादि विहितं, तस्य प्रेरकबलं हेमचन्द्राचार्या एवाऽऽसन् । तैरुप्ताः कारुण्यसंस्कारास्तावद् दृढमूला जाता, यत् तदनन्तरं शतकानि यावत् तु ते जीवितवन्त एव; परमद्याऽपि, यदा गुर्जरदेशस्य शासकैरहिंसा मध्यकालीनाऽयुक्तरूढिरन्धश्रद्धा वा परिगण्यते, निपुणतयाऽधिकाधिकहिंसार्थं प्रोत्साह्यते च, तदाऽपि, तदात्वे उप्तानां दयासंस्कारानामंशा गुर्जरदेशस्य राजस्थानस्य च प्रदेशेषु दृश्यन्तेऽनुभूयन्ते च ।
४. अथ च कीदृशं हेमाचार्याणां शीलम् ? परमनैष्ठिकया ब्रह्मसाधनया मण्डितं योगमयं तपोमयं च तेषां जीवनं तत्प्रतिस्पर्द्धिनामपि हृदये आदरमहोभावं च प्रेरयत् स्यादिति निःशम् । तेषां ललाटे तपोदीप्तिः सत्त्वश्रीश्च तावद् विलसन्त्यौ स्यातां यत् तान् दृष्ट्वैव 'सातं वर्तते ?' इत्येतादृशान् प्रश्नान् प्रष्टुं साहसमेव न भवेदपित्वनायासेनैव मुखात् 'तपो वर्धते ? पुण्यं वर्धते? ज्ञानं वर्धते?' इत्येतादृशा आत्मनिष्ठर्षये एव प्रष्टुं योग्याः प्रश्नो निःसरेयुः । इदं परमं सत्त्वबलमेव ताननासक्तान् समभाविनोऽनन्यसामर्थ्यवतश्च कृतवत् स्यात् ।।
__ अस्योदर्करूपेण विकसितं तेषां पुण्यबलं दृश्यताम् । द्वौ द्वौ सम्राजौ तेषां चरणयोः प्रणमने तेषामादेशानुसरणे च स्वसौभाग्यं मन्वाते स्म, स्वनाम्नाऽऽचार्यनाम्नो योजनस्याऽवसरं सगौरवं वर्धापयतः स्म। कदाचिदेवमेव हैमशब्दानुशासनं सिद्धराजस्य हेमाचार्याणां च नाम्नोः संयोजनेन सिद्धहेमशब्दानुशासनरूपेण निमितं स्यात् । ततोऽप्यग्रेगत्य कुमारपालेन तु परदुःखभञ्जकेन वीरविक्रमेणेव जगत एवाऽनणीकरणस्याऽपार्थिवः स्वप्नो दृष्टः, आसेवितः, तद्दिशि च सर्वस्वं विनियोज्य स्वनाम्ना संवदपि प्रवर्तितम् । तत्रापि तेनाऽद्भुतं सृष्टम् । स्वगुरूणां हेमचन्द्राचार्याणां नाम तु तस्य कृतेऽनिवार्यमासीदेव, किन्तु तेन सहैव, स्वस्य वधार्थं सततं प्रयतितवतः, स्वेन दशकानि यावदत्रतत्राऽटाट्यां कारयितुश्च पितृव्यस्य पुरोगामिनो राज्ञः सिद्धराजस्याऽपि नाम तत्र संमील्याऽऽत्मनोऽद्भुतौदार्यस्य परिचयस्तेन विश्वाय प्रदतः । तेन प्रवर्तितस्य संवत्सरस्य नामाऽऽसीत्-सिद्धहेमकुमारसंवत् ।
__ अस्य संवन्नाम्नो द्वे प्रमाणे समुपलभ्यते । एकं-हेमाचार्यैविरचिताया अभिधानचिन्तामणिनाममालायाः स्वोपज्ञविवरणे (६.१७२) - 'संवद् वर्षे । यथा विक्रमसंवत्, सिद्धहेमकुमारसंव'दिति । द्वितीयं - सौराष्ट्र श्रीशत्रुञ्जयतीर्थे चतुर्मुखजिनालये एकत्र विराजमाने धातुविग्रहे उत्कीर्णो लेख: - 'श्रीसिद्धहेमकुमार सं. ४ वैशाख व. २ गुरौ भीमपल्लीसत्क व्यव. हरिश्चन्द्र भार्या गुणदेवि श्रेयार्थं श्रीशान्तिनाथबिम्बं कारित मिति ।
२८