SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ दत्त एक आदेशो राजस्थानतः शिलालेखरूपेण प्राप्तोऽस्ति, यस्मिन् तेन प्रतिपक्षमष्टम्यामेकादश्यां चतुर्दश्यां च जीवहिंसायाः प्रतिबन्धो घोषितोऽस्ति । विक्रमसंवत् १२०९वर्षस्याऽस्मिन् शिलालेखे तस्य राज्ञः कुमारपालाधीनत्वस्य स्पष्टं सूचनमस्ति । अथ चाऽमुं जीवमात्रवधनिषेधसम्बन्धिनं शिलालेखं केवलगोवधनिषेधपरं मत्वाऽस्माकं विश्वविख्यातः पुरातत्त्ववित् (स्व.) श्रीहसमुख-सांकळियावर्यः, गोवधनिषेधसम्बन्धे सर्वकारस्य नीतियथार्थेति प्रदर्शयितुं, 'कुमारपालस्य शासनेऽपि सर्वथा गोवधनिषेधो न सम्भवित' इति विधानं कृतवान् । तस्याऽऽत्मवृत्तान्ते 'पुरातत्त्वने चरणे' इत्यस्मिन् (प्र.- आर.आर. शेठनी कंपनी, १९८५) १३८तमपृष्ठे लिखितमस्ति - "एवं चैव सर्वकारस्याऽग्रे गोवधनिषेधस्य दुराग्रहो न युक्त इति मे मतिः । यतो भारतवर्षस्येतिहासे न कदापि सर्वथा गोवधनिषेध आसीत् । जैनधर्मस्य महाश्रयदाता कुमारपालोऽपि गोवधनिषेधं सर्वथा प्रवर्तयितुं न समर्थीभूतः । पक्षे केवलं दिनत्रयं गोवधनिषेधस्याऽऽदेशस्तेन प्रदत्तुं शक्यो जातः ।" स एवाऽग्रे एवमुल्लिखति यदेतस्य मतस्य कृते तदा स्वयं प्रभूतानामाक्षेपाणां पात्रीभूतः, परं तटस्थसंशोधनस्य फलरूपेण प्राप्त तथ्यमेव स्वेन दृढमालम्बितमित्यादि । ___ डॉ. सांकळियावर्यस्य विशिष्टविद्वत्तां प्रति प्रभूते आदरे सत्यपि तस्योपरितनकथनेऽस्माकं सम्मतिरसम्भवा । यतः कुमारपालस्याऽऽदर्शो न केवलं गोवधनिषेधः, अपितु प्राणिमात्रायाऽभयदाने तस्य रुचिरासीत् । स्वशासने आकीटककुञ्जरं कस्याऽपि हिंसा न भवेत्तदर्थं सोऽत्यन्तसमुत्सुक आसीत् । एवं सति गोवधनिषेधमात्रेण साकं तस्य सम्बन्धं योजयितुं कथं युज्येत? अन्यच्च यस्य शिलालेखस्याऽऽधारो डो. सांकळियावर्येण गृहीतस्तस्मिन् 'प्राणिनामभयदानं, जीववधः, अमारिः' इत्येतादृशाः शब्दाः सन्त्येव । एते शब्दा येषूपयुक्तास्तानि वाक्यानि स्पष्टतया निश्चितदिनेषु (प्रतिपक्षं त्रिषु) यस्य कस्याऽपि जीवस्य हिंसायाः प्रतिबन्धं सूचयन्ति । एषु वाक्येषु हिंसकस्य पापिष्ठतररूपेण गणनाऽस्ति । उपर्युल्लिखितकिराडूक्षेत्रस्थ-शिलालेखसदृशे रतनपुरस्य शिलालेखे तु प्रतिबन्धितदिवसेषु कुम्भकाराणां निभाण्डप्रज्वालनस्याऽपि निषेधः प्रवर्तितोऽस्ति । एवं च गोवधनिषेधमात्रस्य वार्तव कुतः समागतेति । अथ चाऽयं प्रश्नोऽवशिष्टः । मा भूः केवलं गोवधनिषेधः, जीववधनिषेध एव तिष्ठतु । परं स्वयं कुमारपालोऽपि प्रतिपक्षं केवलं दिनत्रयमेव तं प्रवर्तयितुं किल शक्तो जातः ? न खलु सदैव ? इति । प्रश्नस्याऽस्य समाधानमित्थम् । शिलालेखोऽयं यत्र सम्प्राप्तः स प्रदेशो न कुमारपालस्य साक्षादधीनः, अपितु गुर्जरराष्ट्राधीनसंस्थानम् । तत्र साक्षादाज्ञा तु आल्हणदेवस्य वर्तते स्म । अथ च यथेदानीं गणतन्त्रव्यवस्थायामेको मध्यस्थः सर्वकारो भवति, तदाश्रये च विभिन्ना राज्यसर्वकारा तत्तत्प्रदेशेषु व्यवस्थां निभालयन्ति; तत्र च समग्रस्य राष्ट्रस्य सर्वस्याः प्रजाया वा सम्बन्धिनीषु वार्तासु कासुचिन्मूलभूतनीतिविषयिणीषु च सर्वोपरिवतिनो मध्यस्थसर्वकारस्य आदेशः प्रवर्तते, तदितरासु प्रान्तीयासु वार्तासु च राज्यसर्वकारस्याऽधिकारो भवति । तथैव प्रायो गुर्जरदेशे इदानीन्तनकेन्द्रशासितप्रदेशसमेषु च साक्षाद् २७
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy