________________
१. इन्द्रः, पाणिनिः, कात्यायनः, पतञ्जलिः, शाकटायनः, अमरसिंहः, धनञ्जयः, धनपालः, भट्टी, गुहसेनः, कालिदासः, वाल्मीकिः, व्यासः, हरिभद्रसूरिः, मातृचेटः, मम्मट: - इमे सर्वेऽप्यार्यसंस्कृतेः समर्था उद्गातारः सन्ति । एते सर्वेऽपि विभिन्नकालखण्डेषु विभिन्नतया च या याः साहित्यविधाः प्रणीतवन्तः, ता निःशेषा अपि साहित्यविधा हेमचन्द्राचार्या आत्मद्वितीयतयैव परिपोषितवन्तः । तथा चैतेषां सर्वेषां पूर्वसूरीणां साहित्यत उत्तमा शान् सङ्गृह्य स्वकीयं च सत्त्वं तत्र संयोज्य भारतवर्षायाऽमूल्यः साहित्यनिधिस्ते उपाहृतवन्तः ।
२. गौर्जरराष्ट्रं तदधीनान्यष्टादश संस्थानानि च तन्नामेदानीन्तनमध्यर्द्धं हिन्दुस्थानं - तस्मिन् नैतिकमूल्यानामारोपणार्थं सततं सबलपुरुषार्थो हेमचन्द्राचार्यैर्विहितः । पुरुषार्थोऽयं गुर्जरधरित्र्यां सम्पूर्णतः सफलो जातः । अत एव गौरेषु दयौदार्य, मार्दवं, सुजनता, लज्जा, सौहार्दै, सहिष्णुतेत्यादीनां तत्त्वानामवतरणं जातम् । मद्यपानद्यूतादिव्यसनेभ्यो जीवहत्यादिदुष्कर्मभ्यश्च गौर्जरा यदद्याऽपि प्रायो विप्रकृष्टाः, तस्य मूलभूतं कारणं हेमाचार्यैरुप्ताः संस्कारा एव ।
३. अहिंसा - भूतदया हेमाचार्याणां जीवनधर्म आसीत् , आसीच्च जीवनध्येयमपि । स्वयं ते वीतरागाः श्रमणा आसन्, ततोऽहिंसायाः परिशुद्धमाचरणं तेषां निजजीवने त्वासीदेव । तदाचरणमेव तदाचरणप्रेरकाणि तत्त्वानि चैव तेषां चित्तभूमौ दिव्यनिर्झरमेकं प्रवाहितवन्ति - दयानिर्झरम् । “न कस्मैचिद् दुःखं रोचते । सर्वेऽपि सुखीभवितुं- सुखमयं जीवनं यापयितुमिच्छन्ति । स्वस्मात् कस्याऽपि त्रासो भयमुपद्रवो मृत्युर्वा न जायेत स एव मनुजधर्मः, स एव च प्रकृतिनियमः । न केवलं मनुष्याणामपि तु तदितरस्य यस्य कस्याऽपि जीवस्य त्रासनं मारणं वा सत्त्वसृष्टेः प्रकृतेश्चाऽक्षम्योऽपराध एव" - एतादृग्विचारधारया तेषां हृदयं सदैवाऽऽीभूतं विद्यते स्म ।।
ते गदितवन्तः "स्वाङ्गे कुशाग्रेण दीर्यमाणो मनुष्यो न तावदपि सोढुं शक्नोति, किन्तूच्चैरारार्टि करोति, क्रोधेन प्रतीकाराय धावति च । परमसावेव निष्कारणमेव केवलं क्षुल्लकस्वार्थस्योदरस्याऽन्धश्रद्धाया वा पूर्तयेऽन्यान् प्राणिनस्तीक्ष्णैः शस्त्रैर्विदारयति । कीदृशीयं विडम्बना ! किं तेन तदा सा कुशाग्रतोदनवेदना नैव स्मर्यते ?" इति ।
अहिंसाया जीवद्रूपं - अहिंसापुरुष इति निःशङ्कतया परिचाययितुं शक्येत, तादृशी तेषामहिंसां प्रति भक्तिः श्रद्धा चाऽऽस्ताम् । इयमुत्कटा श्रद्धैव तेषां कृते एकं महान्तमवसरं प्रकल्पितवती - कुमारपालस्य परिचयः ; यस्योपयोगस्तैर्गुर्जरदेशे तदधीनसंस्थानेषु चाऽहिंसायाः प्रसाराय पालनाय च समीचीनैः साधनैः समुचितरीत्या च विहितः । तथाच कृत्वा गुर्जरदेशमहिंसाप्रधानसंस्कृतेराभिजनमहिंसायाः सन्देशवाहकं च ते निर्मितवन्तः ।
प्रसङ्गतो वार्तेकाऽत्रोल्लिख्यते । नडूलस्य राजा आल्हणदेवो, य: कुमारपालस्य सामन्त आसीत्, यश्च परमशैवीभूयाऽपि कुमारपालस्याऽहिंसाया आदेशमनुसरति स्म। तेन स्वकीयराज्येऽहिंसापालनाय
२६