________________
[पूज्यपादा गुरुभगवन्त: श्रीविजयशीलचन्द्रसूरयः कलिकालसर्वज्ञ - श्रीहेमचन्द्राचार्याणां नवशततमं जन्मोत्सवं निमित्तीकृत्य ( विक्रमसंवत् २०४५ वर्षे) हेमाचार्यैर्विरचितं महादेवद्वात्रिंशिकास्तोत्रं संशोधनपुरस्सरं प्रकाशितवन्त आसन् । विगतवर्षे आचार्याणां नवशततमे सूरिपदोत्सवे पुस्तकस्याऽस्य द्वितीयाऽऽवृत्तिः प्रकाशिता
श्री हेमचन्द्राचार्याः
तैर्विरचितं महादेवद्वात्रिंशिकास्तोत्रं च ऽभूद्, यस्यां गुरुदेवैरावश्यकं संशोधनं
संवर्धनं च विहितमासीत् । अस्मिन् पुस्तके तैर्गुर्जरभाषया या तथ्यान्वेषिणी भूमिकाऽऽ लिखिता समभवत्, सा बहूनां मान्यानां समादरभाजनं जाता । नन्दनवन - सम्बन्धिभिस्तथ्यैरवगता भवन्त्विति धिया
श्रीविजयशीलचन्द्रसूरयः अनु. - मुनि त्रैलोक्यमण्डनविजयः
कल्पतरोर्वाचका अपि हेमाचार्याणां महादेवद्वात्रिंशिकायाश्च तस्या भूमिकायाः सङ्क्षिप्तानुवादोऽत्र प्रस्तूयते ।]
वैक्रमीयः २०४५ संवत्सरो यथा कलिकालसर्वज्ञ- श्रीहेमचन्द्राचार्याणां नवमजन्मशताब्द्या वर्ष आसीत्, तथा वैक्रमीयः २०६६वत्सरस्तेषामाचार्यपदप्राप्त्या नवशततमं वर्षमस्ति । ईदृशाः पुण्या अवसरा अस्मभ्यं तेषां धन्यानां गुणस्तुत्यर्थं, तज्जीवनकवनविषये चिन्तन - परिशीलन - स्वाध्यायाद्यर्थं, तैर्विहितानां सुकृतानां मूल्याङ्कनार्थं च सबलं निमित्तं ददति ।
कलिकालसर्वज्ञानां जन्मदिनमस्ति कार्तिकी पूर्णिमा । दिनमिदं कियन्महिमान्वितम् ! सिक्खसम्प्रदायप्रवर्तकानां गुरुनानकदेवानां जन्मदिनमपीदमेव । तथैव विंशशताब्द्या जैना आत्मसाधकाः श्रीमद्राजचन्द्रा अप्यस्मिन्नेव दिने जनिं लब्धवन्तः । यद्यपि जनिसमयो न मनुजेच्छावशवर्ती, तथाऽपि महतां जन्मदिनं जन्मसमयश्च समापत्त्या सहजतयैव वा तथा घटेते; यथा तेषां विदेहानन्तरमायतिसन्ततीनां कृते तानि दिनानि ते क्षणाश्चोत्सवस्य प्रेरणायाश्च मङ्गलं पर्व समापद्यन्ते ।
कार्तिकपूर्णिमातुल्य एव महत्तापूर्णो मङ्गलदिवसोऽक्षयतृतीया । वैशाखशुक्लतृतीयाया इदं शुभदिनं श्रीहेमचन्द्राचार्याणामाचार्यपदप्राप्तेरहः । भारतवर्षे संवत्सरस्य येऽङ्गुलिगण्यास्त्रिचतुरा वासराः सर्वश्रेष्ठा मङ्गलमुहूर्त्तनिभाश्च परिगण्यन्ते, तेष्वियमक्षयतृतीयाऽपि समाविष्टा भवति । ईदृशे श्रेष्ठदिने, विक्रमसंवत् ११६६वर्षे एकविंशतिवर्षात्मिकायामुद्गच्छद्यौवनस्य वासन्त्यां कलायां, जैनधर्मसङ्घस्य सर्वोच्चपदं-सूरिपदं प्राप्येत; तदपि महापुरुषाणाममीषां जीवनस्य कीदृशी मधुरा समापत्ति: !
* * *
यदि श्रीहेमचन्द्राचार्याणां समग्रतया मूल्याङ्कनं चिकीर्षितं भवेत्, तदपि पुनः सङ्क्षेपेण ; तर्हि तेषां जीवनं चतुर्षु भागेषु विभाजनीयं भवेत् : १. साहित्यसर्जनम् २. संस्कारवपनम् ३. अमारिप्रवर्तनम् ४. ब्रह्मयोगतप:साधनम् ।
२५