________________
आसीत् । एतच्च ज्ञानं तेषां योगाभ्यासस्य फलमासीत् । जीवनेऽजितानां सकलानामपि सिद्धीनां परीक्षा मृत्युकाल एव भवति । हेमचन्द्राचार्या हि तदर्थं सर्वथा सन्नद्धा आसन् ।
निश्चितदिने तैः शिष्यगणः कुमारपालः सकलसङ्घश्च स्वस्थाने एकत्र कृतः । सर्वेऽपि तत्प्रयोजनं जानन्ति स्मैव । अतः सर्वेऽप्युदासाः शोकमग्नाश्चाऽऽसन् । शिष्यवृन्दं स्तब्धतयैकतः स्थितमासीत् । राजाऽपि गुरुचरणयोर्मस्तकं नामयित्वोपविष्ट आसीत् । सङ्घश्च सजलनेत्र आसीत् । गुरुभिः सर्वेऽपि सप्रेमदृष्ट्या निरीक्षिताः सम्भाषिताश्च । शिष्याणामपि भवबीजाङ्करनाशार्थं साधनमाराधनं च कर्तुमनुशिष्टम् । ततो राज्ञे कथितं – 'राजन् ! भवान् कुलपरम्परया परममाहेश्वरो धर्माचरणेन च परमार्हतो भूत्वाऽपि जीवने परममानवोऽपि सञ्जातः । भवता निजजीवनं सफलीकृतमस्ति । अतः शोकं मा कार्षीत् । किञ्च, भवतो गमनकालोऽपि केवलं षण्मासावशिष्ट एव । अतोऽधिकाधिकसत्कार्याणि कृत्वा मरणं सफलीकरोतु' ।
ततस्तैः शिष्यगणेन नृपेणाऽन्यैश्च सह नम्रतया क्षमायाचनं कृतम् । सकलजगज्जीवैः सहाऽपि क्षमायाचनं कृतं, यथा -
क्षमयामि सर्वान् सत्त्वान्, सर्वे क्षाम्यन्तु ते मयि ।
मैत्र्यस्तु तेषा सर्वेषु त्वदेकशरणस्य मे ॥ अर्हत्सिद्ध-साधु-धर्मस्वरूपचतुःशरणं स्वीकृतं -
त्वां त्वत्फलभूतान् सिद्धांस्त्वच्छासनरतान् मुनीन् ।
त्वच्छासनं च शरणं प्रतिपन्नोऽस्मि भावतः ॥ ततः शुद्धात्मस्वरूपे लयं प्राप्तानां तेषां मुखान्मृदु-मधुरस्वरेण श्लोकावलिः प्रस्फुटिता -
न शब्दो न रूपं न रसो नाऽपि गन्धो न वा स्पर्शलेशो न वर्णो न लिङ्गम् । न पूर्वापरत्वं न यस्याऽस्ति सञ्जा स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ आत्मन् ! देवस्त्वमेव त्रिभुवनभवनोद्योतदीपस्त्वमेव ब्रह्मज्योतिस्त्वमेवाऽखिलविषयसमुज्जीवनायुस्त्वमेव । कर्ता भोक्ता त्वमेव व्रजसि जगति च स्थाणुरूपस्त्वमेव
स्वस्मिन् ज्ञात्वा स्वरूपं किमु तदिह बहिर्भावमाविष्करोमि ? || इत्यादि । शनैः शनैस्तेषां नेत्रे परमशान्तौ निमग्ने इव निमीलिते । वदनं तेजसा प्रोल्लसितम् । निर्दिष्टे च क्षणे शद्धस्वरूपानुसन्धाने लीनानां तेषां प्राणा योगप्रक्रियया ब्रह्मरन्ध्रान्निर्गताः । गर्जरदेशस्य संस्कारनेतारो महातपस्विनः परमसंयमवन्तोऽनन्यसाधारणविद्वांसो महानृपतिद्वयप्रतिबोधकाः समर्थसाधवश्च श्रीहेमचन्द्राचार्याः स्वर्गभुवमलञ्चक्रुः । एतच्च वैक्रमे १२२९तमे संवति घटितम् ।
७७