SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ तेषामन्तिमयात्रायां लक्षशो जना उपस्थिता आसन् । चन्दनकाष्ठमयचितायां तेषां पार्थिवदेहस्याऽग्निसंस्कारो जात: । तदनन्तरं कुमारपालेन राज्ञा सबाष्पनेत्रेण तद्भस्मना तिलकं कृतम् । ततः सर्वैरपि जनैस्तत्रोपस्थितैस्तद्भस्म गृहीतम् । एतेन तत्र स्थाने महान् गर्त एव सञ्जातः, स चाऽद्याऽपि पत्तननगरे विद्यते 'हेमैंखाड’ इति नाम्ना प्रसिद्धश्चाऽस्ति । - तदनन्तरं षण्मासान्ते कुमारपालनृपोऽपि हेमचन्द्राचार्यनिर्दिष्टदिने परमात्मतत्त्वलीनहृदयो गुरुभिः कृतानामुपकाराणां स्मरणं कुर्वन्, यथा - श्रीहेमसूरिप्रभुपादपद्मं वन्दे भवाब्धेस्तरणैकपोतम् । ललाटपट्टान्नरकान्तराज्याक्षरावलिर्येन मम व्यलोपि ॥ इत्यादि, प्रसन्नचित्तः कृतजगज्जीवमैत्रीभावः स्वभ्रातृजेनाऽजयपालेन कृताद् विषप्रयोगान्मर्त्यदेहमिमं त्यक्त्वा स्वर्लोकं प्राप्तः । अथ चैतत् चरितमिह समाप्तं भवति । किन्तु विरामात् पूर्वं काचित् स्पष्टता कर्तव्या । कलिकालसर्वज्ञानां श्रीहेमचन्द्राचार्याणां सम्पूर्णं जीवनचरितं कुत्राऽपि वर्णितं न प्राप्यते । विविधग्रन्थेषु केवलं याः काश्चन घटना: प्रसङ्गाश्च प्राप्यन्ते तानेव गुम्फित्वाऽत्र किञ्चिद् वर्णितमस्ति । तत्राऽपि च तेषामेव समकालीनैः श्रीसोमप्रभाचार्यैः कुमारपालप्रतिबोध: - नाम प्राकृतभाषामयो ग्रन्थो विरचितोऽस्ति, स च हेमचन्द्राचार्यशिष्यैरेव संशोधितोऽस्त्यतः सर्वथा प्रामाणिकोऽस्तीति तदनुसारमेव तेषां जन्मादिप्रसङ्गा वर्णिताः सन्ति । तथैव केषुचित् प्रबन्धेषु बहवश्चमत्कारपूर्णप्रसङ्गा अपि हेमचन्द्राचार्यानाश्रित्य वर्णिताः सन्ति । तेऽत्र चरिते नैव समाविष्टाः । अपि च, गूर्जरदेशनृपतेः सिद्धराजजयसिंहस्य कुमारपालस्याऽपि चरितप्रसङ्गाः केचनाऽत्र हेमचन्द्राचार्यचरिते समाविष्टाः सन्ति, यतस्तेषां त्रयाणामपि महापुरुषाणां जीवनान्यन्योन्यसम्मीलितानि पृथक्कर्तुं च नैव शक्यानि । किञ्च, पाश्चात्यविदुषा बुलर - इत्यनेनाऽन्यैश्च कैश्चित् तेषां जीवनप्रसङ्गाः लिखिताः सन्ति । किन्तु ते सर्वेऽपि विद्वांसः प्रायो जैनपरम्पराया जैनसाध्वाचाराणां चाऽनभिज्ञाः आसन् । अतस्तैः स्वमतिकल्पनया तत्र तत्र यत्किञ्चिदसमञ्जसं वर्णनं कृतम् । तच्चेह सर्वथा नाऽऽदृतम् । प्रान्ते मम मनोगतभावान् प्रकटीकृत्य समर्थयामि । एतच्चरितालेखने मां प्रवर्तयितृभिमर्म पूज्यगुरुवर्यैर्बहून् ग्रन्थानर्पयित्वा महत्त्वपूर्णवृत्तानि च कथयित्वा भृशमुपकृतोऽस्मि । अतो नितरां तेषामृणभारं धारयामि । चरितालेखनव्याजेन सर्वानपि ग्रन्थानेतान् पठतो मे हेमचन्द्राचार्याणामन्तरङ्गपरिचयो जातस्तेन च मनसि ये केचन विकल्पा असमञ्जसभावाश्चाऽऽसन् ते सर्वेऽपि स्वयमेवोपशान्ता: । सहैव च जीवने सर्वत्राऽपि समेषु विषमेषु च प्रसङ्गेषु समत्वं कथं धार्यं, समन्वयनं कथं कर्तव्यं, स्वस्थतया च कथं * अद्यत्वे इदं स्थानं मुस्लिमजनानां हस्तगतमस्ति । ७८
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy