________________
वस्तुतो मालवमहीपतिना भोजेन विरचितो व्याकरणग्रन्थः सरस्वतीकण्ठाभरणाख्यः सिद्धराजस्य हस्तमागत आसीत् । सम्राट सिद्धराजोऽतिमुदितवान् दृष्ट्वा नयनाभिरामं तत्सर्जनम् । कृतिरेषा राज्ञो मनस्येकां विशिष्टामभिलाषां प्रादुरभावयत् - "यदि धारानगर्या राजैतादृशं ग्रन्थं सृष्ट्वाऽमरत्वमाप्नुयात्, तहहमपि केनाऽपि गुर्जरविदुषाऽस्मादप्युत्तमं ग्रन्थं मदीयनामयुक्तं विरचय्याऽमरतां कथं न प्राप्नुयाम्" इति ।
परामर्शबीजमिदं राज्ञा राजसमज्यायामाह्वानपूर्वकं प्रकटीकृतम् । यत: ‘सर्वे जनास्सन्ति महत्त्वाकाङ्क्षाभिः पूर्णाः ।'
सर्वेऽप्यन्ये विद्वन्मन्या विपश्चितो नोत्साहवन्तोऽभूवन् स्वीकर्तुमाह्वानमिदम् । यतस्तैः सुज्ञातं यत् कार्यमिदं दुःसाधतरमस्ति । सर्वान् निस्तेजसो दृष्ट्वा राज्ञा प्रज्ञापुरुषश्रीमद्हेमचन्द्राचार्यो विज्ञप्तो यद् - "यशो मम तव ख्यातिः, पुण्यं च मुनिनायक ! विश्वलोकोपकाराय, कुरु व्याकरणं नवम् ॥" तां भक्तिपूर्णा विज्ञप्तिं श्रुत्वा प्रज्ञाप्रतिभासम्पन्नो हेमचन्द्राचार्य उक्तवान् – “गुर्जरेश ! निश्चिन्तो भव । भवत्प्रार्थनानुरूपं व्याकरणग्रन्थमहमल्पावधौ स्रक्ष्यामि । तवाऽभिलाषोऽवश्यं परिपूर्णो भविष्यति" ।
हर्षोन्मत्तः सिद्धराज उच्चचार - "गुरुदेव ! भवति मे पूर्णविश्वासः । भवानेतदर्थे प्रभविष्णुः । अहमादरपूर्वकं ग्रन्थसर्जनकार्यं भवते समर्पयामि ।"
अभिनवसर्जनं चिकीर्षः श्रीहेमचन्द्राचार्यः कार्यमारब्धवान् त्वरितम् । नैके मासा व्यतीताः । प्रायो वर्षान्ते श्रीहेमचन्द्राचार्योऽवदत् - "राजन् ! तृप्तो भव, तवाऽभीष्टं सम्पन्नम् । अद्य तीव्रपरिश्रमतरौ सपादलक्षमान-भव्यव्याकरणग्रन्थफलं लग्नमस्ति ।"
सन्देशमानन्ददायकं श्रुत्वेमं रणरणकेन सिद्धराजेन तत्क्षणमेव तद्व्याकरणग्रन्थोऽवलोकितः । तस्याऽनुपमा रचनां दृष्ट्वा सिद्धराजस्य मनोमयूरोऽनृत्यत् । अणहिल्लपुरपत्तने सिद्धराजेन तस्याश्चमत्कृतिपूर्णकृतेर्भव्यशोभायात्रा निर्धारिता । समस्तनगरी नववधूसदृशी व्यभूष्यत राज्ञा । सबहुमानेन सिद्धराजेन व्याकरणग्रन्थो हस्त्युपरि विराजितः । जलपूर्णजलधिरिव पौरजनपूर्णा भव्यातिभव्या शोभायात्रा निर्गता । पूतं ग्रन्थरत्नं पूजितं लोकैः स्वर्णरजतपुष्पैः । ग्रन्थसन्मानार्थमैतिहासिकमहोत्सवः कृतः । सिद्धराजजयसिंह हेमचन्द्राचार्ययोः स्मृत्यर्थं ग्रन्थाभिधानं 'सिद्धहेमचन्द्रशब्दानुशासनम्' इति कृतम् । हेमचन्द्राचार्यस्याउनुपमप्रज्ञाद्योतकेन तेन ग्रन्थेन जगन्नभोमण्डले जिनशासनस्य गौरवपताकोच्चैः स्पन्दमानाऽभवत् ।
अतुलपुण्यस्य तीव्रतमप्रज्ञायाश्च प्राबल्याद् हेमचन्द्राचार्यानां जीवनाकाशमेतादृशैस्त्वनेकप्रसङ्गतारकैर्व्यराजत । वयं तान् सर्वान् प्रसङ्गान् युगपदनुमोदयितुं सूरिहेमचन्द्रेभ्यस्तैरेव रचितस्य वीतरागस्तवग्रन्थस्य श्लोकपङ्क्ति प्रयुज्य विरमामोऽत्रैव यद् - 'महतां काऽपि वैदुषी ?'
१०५