SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्रज्ञातीर्थस्य वन्दनम् मुनि-अक्षयरत्नविजयः ( पू. युग. आ. विजयधर्मसूरीश्वरसमुदायवर्ती ) देशनासमये परमतारक - परमात्मना प्रभुमहावीरेण 'उप्पन्नेई वा, विगमेई वा, धुवेई वा' इति त्रिपदी यथा गणधरेभ्यो दत्ता, तथाऽस्मदाप्तजनैरस्मभ्यमेका मनोहरा कल्याणकारिणी त्रिपदी दत्ता । सेयं त्रिपदी ‘१. परित्यजनीयोऽवर्णवादः २. अर्जनीय आशीर्वादः ३. करणीयो गुणानुवादश्चेति' । त्रिपद्या: प्रथमपदस्य भावोऽयं यदनेकदोषाणां मूलसदृशेऽवर्णवादे सत्पुरुषाणां प्रवृत्तेरनौचित्यात् कुत्सापराभिधानादवर्णवादाद् दुर्जनार्हाद् विरमेयुस्सज्जनाः । पूज्यानां गुर्वादिकानां कृपाया आत्मप्रगतेर्निबन्धनत्वात् ये ये पूज्यास्तेषामाशीर्वादार्थे सर्वदोद्यमशीलैर्भवितव्यमिति द्वितीयपदं प्रेरयति । सर्वोत्तमतृतीयपदार्थोऽयं यद् गुणवतां जनानां गुणस्तवनस्याऽवसरं कदाऽपि न परित्यजेत्, गुणानुवादस्याऽस्मद्गुणविकासे निमित्तत्वात् । इदानीं त्रिपद्यास्तृतीयपदाचरणस्याऽवसरः समुपस्थितोऽस्ति । यतो नवपदमण्डलस्य तृतीयपदालङ्कारिष्णोः कलिकालसर्वज्ञश्रीमहेमचन्द्राचार्यभगवतः सूरिपदनवमशताब्दी प्रचलतीदानीम् । अतस्तस्य पूज्यपादस्य गुणस्तवने चित्तमुल्लसितम् । आगच्छत, अवसरं प्राप्य वयं सर्वे श्रीमतोऽद्वितीयप्रज्ञावैभवद्योतक-प्रसङ्गावलोकनेन तदीयं गुणसङ्कीर्तनं कुर्याम्, तेन च पूर्वोक्तत्रिपद्या अन्तिमं पद्यं चरितार्थं कुर्वीमहि । यतो 'महात्मनां कीर्तनं हि श्रेयो निःश्रेयसास्पदम्' । “भोः समज्यासदः ! सभायामस्यामस्ति कोऽपि प्रकृष्टप्रभावसम्पन्नः कोविदो यो ग्रन्थादेतस्मादप्युत्कृष्टं ग्रन्थसर्जनं कर्तुं शक्नुयात् ?" गुर्जरनेशः सिद्धराजजयसिंह आह्वानपूर्णभाषया स्वप्रस्तावं विद्वद्जनान् प्रति प्रकटीचकार । १०४
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy