SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ | वाचकानां प्रतिभावः मान्याः, सादरं प्रणामाः । पञ्चविंशे 'नन्दनवनकल्पतरौ' _ 'आनन्दस्य क्षणे' विद्वज्जनेषु ममाऽपि नामोल्लेखो नितरां प्रसादयति माम् । सज्जनाः स्वल्पमपि सत्कर्म संस्मरन्ति । डा. अभिराजराजेन्द्रमिश्रस्य 'अनुभूतिशतकम्' अतीव मार्मिकं विद्यते । अत्र पञ्चाशत्तमं पद्यम् अभिव्यनक्ति यत् सृष्टिकालादेव धर्मस्य प्रादुर्भावो भवति । धर्मः सनातनो भवति। ३२तमे पद्ये 'लम्बरा' इति पदस्य अर्थो मया न ज्ञायते। 'मृदङ्गदासप्रहसने' डा. मिश्रमहोदयेन कपटाचरणस्य परिणामः प्रस्तूयते ।। 'मम हृदयस्पर्शिनी घटना' इति स्तम्भे मनिवर्यैः प्रणीताः प्रस्तताश्च सर्वा घटना नितरां हृदयं संस्पशन्ति । 'ऋणमुक्तिः' इति घटना विशेषेण प्रभावयति माम् । अद्याऽपि लोके निःस्पृहा विद्यादानरता विद्वद्वर्या विराजतेतराम् । 'जगतः सौन्दर्ये' आधुनिकसमाजस्य वास्तविकी कुरूपता प्रस्तूयते, यत्रैको युवा नेत्रशक्तिमधिगम्याऽपि जीविकामनधिगम्य पुनर्नेत्रशक्तिविहीनोऽभूत् । 'स्वर्णिमगुजरातस्य विश्वार्थमैक्यसन्देशः' न केवलं गुजरातस्य वर्तते, अपि तु समग्रभारतस्याऽस्ति । समेषां धर्माणां सम्प्रदायानां सिद्धान्तानां च समाश्रयः तु मन्ये भारतदेश एवाऽऽसृष्टेः ।। __कामये 'नन्दनवनकल्पतरो:' आगामिनी शाखा कलिकालसर्वज्ञस्य जीवितं गुणान् सिद्धान्तान् वैदुष्यञ्च सर्वतोभावेन प्राकाश्यं नयतु । मया स्वकीये 'श्रीरामचरितमानस का काव्यवैभव' इति हिन्दी ग्रन्थे श्रीरामचरितमानसे प्रयुक्तस्य 'वरुणपाश' इति शब्दस्य तात्पर्यबोधाय कलिकालसर्वज्ञस्य 'व्युत्पत्तिरत्नाकरकलिताअभिधानचिन्तामणिनाममाला' इति ग्रन्थस्य सदुपयोगः कृतः । विदुषां कृतेऽस्य कोशस्य महान् सदुपयोगो वर्तते । अत्र तस्य महापुरुषस्य ज्यौतिषशास्त्रस्य पाण्डित्यमपि शोभतेतराम् । नक्षत्रानामुल्लेखेऽत्र तासां देवतानां सङ्केतो वर्तते । यथा 'अथाश्विन्यश्वशकिनी दस्रदेवता' (अभिधान १०८)। विनीतः डा० रूपनारायणपाण्डेयः मान्यवरेषु सम्पादकमहोदयेषु, सादरं विकसन्तुतमां मे प्रणतयः । कुशली कुशलं कामये "स्वस्ति" । नन्दनवनकल्पतरोः पञ्चविंशी शाखा १०+१२० = १३० पुटैः (क्राउन-आकारैः), उत्तमकर्गजैः शोभनमुखपुटैः हस्तलग्ना समयेन । तस्याः चाकचिक्यमयं स्फुरणं त्वहं रात्रावेव प्राप्तवान्, स्फुरदक्षरवर्णैः । अभिराजराजेन्द्रमिश्राणां शतक-अन्योक्ति-गलज्जलिकाभिः सह प्रहसनं सम्पुटीकृत्य शाखेयं नितरां चकास्ति । पुनश्च विकसन्ति आचार्य रामकिशोरमिश्र-एस्.जगन्नाथ-वासुदेवपाठकमुनिकल्याणकीर्तिविजयानां लेखा: इति गन्धः सुवर्णे । जिनानां चित्रकाव्यानि, कथाः, किंबहुना प्राकृतमपि अस्मान् प्रचोदयति इति पुनर्वक्तव्यं नस्ति ।
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy