________________
गीतद्वयम् प्रा. अभिराजराजेन्द्रमिश्रः
१. याचेऽहम् सुखाय नैव धनं वैभवं प्रयाचेऽहम्
परार्तिनाशने तमेकपणं याचेऽहम् !! उपैति सान्द्रतमस्सर्वतो भयं सूते । खलीकरोति दृशं वर्त्मनि भ्रमीभूते । क्वचिन्न रज्जुरेव जायतां भुजङ्गो मे
ततो नु चण्डिके ! विवेककणं याचेऽहम्
परार्तिनाशने तमेकपणं याचेऽहम् ॥१॥ जगत्समग्रमेव दावसकुलं जातं समय॑देवमन्दिरं वधस्थलं जातम् ! अहो स्वबिम्ब एव हिंस्रसौनिको जातः
कमीक्ष्य कुत्र कथं मङ्गलानि याचेऽहम्
परार्तिनाशने तमेकपणं याचेऽहम् ॥२॥ विपर्ययो न जगति हन्त कीदृशो दृष्टः अभीष्टताङ्गतो जनोऽपि लोकितोऽनिष्टः । अहो नु सान्द्रशोणितं वहज्जलं जातम्
चरित्रहेम्नि ततः शुद्धतां प्रयाचेऽहम्
परार्तिनाशने तमेकपणं याचेऽहम् ॥३॥ जनश्रुतिः प्रतीयते समन्वितं भवनम् । शतैः सहस्रमितैरेकलस्य संश्रयणम् मनांसि खण्डितानि, खण्डिताश्च विश्वासाः
स्वराष्ट्रसीम्नि पुनरखण्डतां प्रयाचेऽहम्
परार्तिनाशने तमेकपणं माचेऽहम् ॥४॥ धने समागते, गतव हार्दिकी प्रीतिः प्रवर्धितेऽपि रक्षणे, प्रवर्धिता भीतिः । घनान्धकारलीनमीक्ष्यते जगत्तस्मात्
रविं प्रकाशवितरणाऽकृपणं याचेऽहम् परार्तिनाशने तमेकपणं याचेऽहम् ॥५॥
1. Combined Family.