SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ चपलावक्र वृत्तम् यशोजोद्योतममलं प्रकाशं ज्ञानसम्भूतम् । पुष्पदन्ताविव दधुर्ये विश्वमुपकुर्वाणाः ॥२२॥ युग्मविपुला नरेन्द्रप्रभवो ये हि दुर्विषहप्रतापगाः । ये मौक्तिकफलाशाश्च साधुहंसा विवेकिनः ॥२३॥ नविपुलावृत्तम् बोधिं मणिं दधति ये जयन्तं तिमिरगणम् । कान्तिशालिनमनिशं पुण्यपुआप्यममलम् ॥२४॥ तविपुलावृत्तम् ये च सम्पदं सर्वदा भव्यानां नृणां सर्वदा । प्रवहन्ति विश्वोत्तमास्तेषां पवित्रात्मनाम् ॥२६॥ इत्यनुष्टुप्प्रकरणम् ॥ पुराणपसिद्धिए लच्छीचंदुब्भवाणं दीवालिलद्धनंदणभावाणं सायराणं व गहिराणं बालचंदसहोयराणं वरुणागासवयंसाणं व जणनयणमालासहस्सेहिं दंसणिज्जाणं । विशदशीलोत्कर्षेणैव 'नेमीशे'ति प्रसिद्धावपि स्थितये श्रीमद्विजयनेमिसूरीशेति सुवर्णपङ्क्तिनाम्नोद्वहतां चेतनचिन्तामणीनां जङ्गमकल्पतरूणां जगद्गुरूणां गुरुचरणानां चरणाम्भोजद्वयीमभिवन्द्य मरुधरान्तर्गतसोजितरोडाभिधग्रामाज्जित-जय-महेन्द्रयुतो लावण्याभिधो धर्मसूनुः मौलौ विरचिताञ्जलिर्मुदाऽदो विज्ञपयति । निजावदाताधरीकृतसुरशाखिनां पुण्यपुञ्जानां श्रीमतां कृपापत्रं हरियुतमुपलब्धम् । उपलभ्य च निर्धनशेखरश्चिन्तामणिमिव अमन्दानन्दपुलकिताङ्गोऽहं सञ्जातः । श्रीमतां प्रभञ्जनप्रकोपं रुधिरपतनं शरीरदौर्बल्यं श्रीमद्विजयनन्दनसरिपकवानां च वायप्रकोपं ज्ञात्वा चेतश्चिन्तायते । निदाघस्य मध्यमवयसि नाऽधिकं विहरिष्यामि । पक्षान्तरितं पत्रमवश्यं लिखिष्यामि, मम वातातिरिदानीं कनीयस्येवाऽस्ति । केवलं श्रीमद्भ्योऽन्यत्र विहतिः न्यायाभ्यासत्रुटिश्चाऽतीव शल्यप्रदा । तत्पूर्तये प्रबलौत्सुक्येऽपि संयोगवशेनाऽत्र व्यवस्थितः किं कुर्वे ? श्रीमतां शरीरस्वास्थ्यमस्मादृशां जीवनदवरिका, अतः वक्तुमनर्हत्वेऽपि शरीरस्वास्थ्यव्यवस्थां याचे । किमपि विनयपथप्रतिपन्थि लिखितं भवेत् तस्य क्षमां याचयामि ॥
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy