SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ उदीच्यवृत्तिवृत्तम् क्षितौ हि सारस्वतामृतैः शुभमालाकारैर्जगद्वरैः । विभक्तिरोचिष्णुभिः सदा साधुपदैर्बुधसम्मतैरिह ॥१४॥ प्राच्यवृत्तिवृत्तम् लावण्यसुमालिनः सदादिममहाशया वृत्तचारवः । लक्षातिगमानसम्मिता अवधिशालिनः सत्तरङ्गता ॥१५॥ प्रवृत्तक वृत्तम् तथा च सद्रूपशोभिताः पात्रगाश्च सन्तापहा नृणाम् । सदा सदुद्यानभूमयश्चारुभव्यकमलप्रबोधदाः ॥१६॥ __ अपरान्तिकावृत्तम् ये सदा च गीर्याणबन्धुरा मानपालिनो ये धनार्चिताः । कस्तु रागमायातु दुःखदे विषयकर्मणीत्थं वहन्ति ये ॥१७॥ चारुहासिनीवृत्तम् सदाऽजितवरास्तथाऽपि ये न कैरपि जिता धियां गृहाः । प्रसन्नमुखसोमसुन्दराः सुभद्रसुखदायिनस्तथा ॥१८॥ इति वैतालीयप्रकरणम् ॥ अथाऽनुष्टुप्पकरणम् वक्र वृत्तम् अशत्रुघ्नाः सुमिताभिनन्दिता अपि ये तेषाम् । सद्वल्लभाः क्षमाकाशा ये सन्ति सन्ततं तेषाम् ॥१९॥ पथ्यावक्रम् वाचस्पतिधरा येऽपि विबुधाचार्यताधराः । स्याद्वादनिर्मितो भेदो मन्येऽहं धर्म-धर्मिणोः ॥२०॥ विपरीतपथ्यावक्रम् ये सदानन्दकानन-प्रदेशास्तिलकाधाराः । नयानुरागिणः सदा विविधागमभाजश्च ॥२१॥
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy