________________
पराक्रमवन्तो विद्यावन्तो वा पुरुषा यत्र गच्छेयुस्तत्र तेषां गृहं सन्मानादि च भवेदेव, न तेषां तदर्थमायासश्चिन्ता वा कर्तुमर्हेति भावं मनसि निधायाऽऽचार्य आह -
"सिंह: प्रयाति यत्रैव तस्यौकः स्वं तदेव हि ॥" महान्तः सदैव शक्तिमन्त एव स्यः । परन्त ते धीरा गम्भीराश्चाऽपि स्यः अतः कदाऽपि विवेकं विमर्श वाऽकृत्वा ते शक्तिप्रयोगं नैव कुर्वन्ति । शान्तिप्रयोगेणैव यावत्कार्याणि सिध्यन्ति, तावत्ते शान्तिमेव प्रयुञ्जन्तीति कथयन्नाह सूरिः -
"महान्तः शक्तिमन्तो हि, प्रथमं साम कुर्वते ॥" साधवः सर्वं जनं साधुमेव मत्वा व्यवहरन्ति, ते 'शठे शाठ्यं समाचरे'दिति नीतिं न जानन्ति न वाऽऽचरन्तीति निर्दिशन्नाह -
"विपरीतं न शङ्कन्ते कदाऽपि सरलाशयाः ॥" 'असारात् सारमुद्धरे'दिति सुभाषितमेव भङ्ग्यन्तरेणेत्थं निरूपयत्याचार्य: -
"क्षाराब्धितोऽपि रत्नानि, गृह्णन्ति निपुणाः खलु ॥" 'उत्तमा कृषिः, मध्यमं वाणिज्यं, अधमा सेवा' इत्येवं हि लोकमान्यता । सेवा अर्थात् कैकर्यम् । तत्र धनलाभो यथाकामं भवत्यपि, किन्तु स्वमानं हित्वैव स स्यादित्यत्र न सन्देहः । सेवा-स्वमानयोर्न कदाऽपि सहावस्थानम् । स्वमानस्य बलिं दत्त्वाऽपि ये सेवां कुर्वते ते कीदृशाः स्युः ? एतत् श्लोकार्धरूपयोक्त्या कथयत्याचार्यः -
___“अतृप्ता एव कुर्वन्ति, सेवां मानविघातिनीम् ॥"
सर्वत्र सुस्थत्वमिच्छता जनेन किं शास्त्रमनुसर्तव्यं केवलं? किं वा लोकाचारोऽनुसरणीयः? अत्र विषये सूरेरियं मार्गदर्शिकोक्तिः -
"उपादेया शास्त्र-लोकव्यवहारानुगा हि गीः ॥" नन सर्वत्र शास्त्रादिष लोके च गुरुपदस्य महान महिमा वर्ण्यते । 'आज्ञा गरूणामविचारणीया' 'गुरुवचने च विमर्शः' इत्यादिवाक्यान्यपि गुरोरवश्यमान्यत्वमेव सूचयन्ति । अत्र प्रश्नो भवत्येवं - कदाऽपि कश्चिद् गुरुरुन्मार्गगामी शास्त्रादिविपरीतकारी वा भवेत्,तदा किं कर्तव्यम् ? तादृशावस्थायामपि स गुरुरादरणीय एव, उत त्यक्तव्योऽपि ? एतद्विषये स्पष्टं मार्गदर्शनं कुर्वन्नाचार्यो वक्ति -
"गुरौ प्रशस्यो विनयो, गुरुर्यदि गुरुर्भवेत् । गुरौ गुरुगुणैर्दीने विनयोऽपि त्रपास्पदम् ।। गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥"
२२