________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविशेषः
विश्वप्रथितवैदुष्याणां कलिकालसर्वज्ञश्रीहेमचन्द्राचार्याणामाचार्यपदस्य नवमशताब्दी (वि.सं. ११६६तः वि.सं. २०६६) निमित्तीकृत्य नन्दनवनकल्पतरोरियं शाखा तेभ्यः समर्प्यते । अत्र च विभागे विविधलेखकैलिखितं श्रीहेमचन्द्राचार्यसम्बन्धि साहित्यं प्रकाशितमस्ति ।