SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ बलीवर्दस्य पुत्तलं नष्टं करोमि, इति विचार्याऽऽभीरः पुत्तलस्य ग्रीवोपरि प्राहरत्तदा तस्य पुत्तलस्य मस्तकं त्रुटितं, तस्माच्च पुत्तलान्निष्काणां राशिरधोऽपतत् । एवं च तत्र लिखितो लेखोऽवितथोऽभवत् । (२) मूर्योऽपि राजा भवेत् । एको मूर्खराजा बभूव, तस्य राज्यकार्यभार सचिवगण अचालयत्, तस्य राज्ञः समीपे सदैका विचक्षणा दासी वसति स्म, सा दासी यः कश्चित् प्रसङ्ग उत्तिष्ठते तं सम्भालयति । एकदैका नृत्यमण्डली राजसभायामागता, नर्तकी विविधानालापानलपत्, अथ नर्तकी राजानमपृच्छत् - असौ को रागोऽस्ति ? तदा राज्ञो दास्यवदत् - असौ पञ्चमो रागोऽस्ति, ततो राजा पुनरुक्तवान् - असौ पञ्चमो रागोऽस्ति । अथ केनचित् कारणेन दासी राजमहालयमगच्छत्, समयज्ञा नर्तक्यपृच्छत् – राजन् ! असौ को रागोऽस्ति ? राजाह - असौ षष्ठ रागोऽस्ति । तदा दास्यागच्छदब्रवीच्चाऽसौ गोडी रागोऽस्ति । राजा उक्तवान् - न.... असौ गोडी रागोऽस्ति, राजा पुनरुक्तवान् – यदि दासी नाऽऽगमिष्यत्तहि विंशतिरागान् यावत् प्राप्स्यम् । नृत्यमण्डली राज्ञो मूर्खतामवगतवती राजसभां च त्यक्त्वोदचलत् । (३) कृपणस्य कृपणता एक: कृपणः प्रातिवेश्मिकाय स्वस्य कूपं व्यक्रीणत् । तत्पश्चात् कृपणो विचारयति - प्रातिवेश्मिकादहं कूपनीरस्य मूल्यं याचेय, तहि बहुकं धनं लप्स्ये । द्वितीये दिने प्रातर्यदा प्रातिवेश्मिकः कूपाज्जलं भर्तुमागच्छत्तदा कृपण आह - मया कूपो विक्रीतो न तु नीरम्, अतो नीरस्य मूल्यं देहि । प्रातिवेश्मिको विचारयति-असौ मां दुर्नीत्या पीडयति, तत एनं पाठं पाठयामि । प्रातिवेश्मिक अब्रवीत् – मम कूपे जल रक्षणस्य भाटकं (१०००) सहस्रं रूप्यकाणि देहि, कृपणो विचारयति - असौ प्रतिवेश्मिको ममाऽपि तातोऽस्ति । ततः स आह - गच्छ, अहं कूपेन सह नीरमपि निःशुल्कं ददामि । १२९
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy